________________ श्रीसूत्रकृताश नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 390 // द्वादशमध्ययन समवसरणम्, कालातचक्रसमाः॥१॥' इति भाषणाच्च स्पष्टमेव मिश्रीभावोपगमनं बौद्धानामिति / यदिवा-नानाविधकर्मविपाकाभ्युप- श्रुतस्कन्धः१ गमात्तेषां व्यत्यय एवेति, तथा चोक्तं- यदि शून्यस्तव पक्षो मत्पक्षनिवारकः कथं भवति?। अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ॥१॥इत्यादि, तदेवं बौद्धाः पूर्वोक्तया नीत्या मिश्रीभावमुपगता नास्तित्वं प्रतिपादयन्तोऽस्तित्वमेव प्रतिपादयन्ति / / तथा सांख्या अपि सर्वव्यापितया अक्रियमात्मानमभ्युपगम्य प्रकृतिवियोगान्मोक्षसद्भावं प्रतिपादयन्त: आत्मनो बन्धं मोक्ष सूत्रम् 5-8 (539-542) चस्ववाचा प्रतिपादयन्ति, ततश्च बन्धमोक्षसद्भावे सति स्वकीयया गिरा सक्रियत्वे गृहीते सत्यात्मनः सम्मिश्रीभावं व्रजन्ति, प्रवादचतुष्कं यतो न क्रियामन्तरेण बन्धमोक्षौ घटेते, वाशब्दादक्रियत्वे प्रतिपाद्ये व्यत्यय एव-सक्रियत्वं तेषां स्ववाचाऽऽपद्यते / तदेवं परतीर्थिक लोकायतिकाः सर्वाभावाभ्युपगमेन क्रियाऽभावं प्रतिपादयन्त: बौद्धाश्च क्षणिकत्वात्सर्वशून्यत्वाच्चाक्रियामेवाभ्युपगमयन्तः परिहारंच स्वकीयागमप्रणयनेन चोदिताः सन्तः सम्मिश्रीभावं स्ववाचैव प्रतिपद्यन्ते, तथा सांख्याश्चाक्रियमात्मानमभ्युपगच्छन्तो। बन्धमोक्षसद्भावंच स्वाभ्युपगमेनैव सम्मिश्रीभावं व्रजन्ति व्यत्ययं च एतत्प्रतिपादितम् / यदिवा बौद्धादिः कश्चित्स्यावादिना सम्यग्धेतुदृष्टान्तैर्व्याकुलीक्रियमाणाः सन् सम्यगुत्तरं दातुमसमर्थो यत्किंञ्चनभाषितया मुम्मुई होइ त्ति गद्गदभाषित्वेनाव्यक्तभाषी भवति, यदिवा प्राकृतशैल्या छान्दसत्वाच्चायमर्थो द्रष्टव्यः, तद्यथा- मूकादपि मूको मूकमूको भवति, एतदेव दर्शयति-स्याद्वादिनोक्तं साधनमनुवदितुंशीलमस्येत्यनुवादी तत्प्रतिषेधादननुवादी, सद्धेतुभिर्व्याकुलितमना मौनमेव प्रतिपद्यत इति भावः, अननुभाष्य च प्रतिपक्षसाधनं तथाऽदूषयित्वा च स्वपक्षं प्रतिपादयन्ति, तद्यथा- इदं अस्मदभ्युपगतं दर्शनमेकः // 390 // पक्षोऽस्येति एकपक्षमप्रतिपक्षतयैकान्तिकमविरुद्धार्थाभिधायितया निष्प्रतिबाधं पूर्वापराविरुद्धमित्यर्थः, इदं चैवंभूतमपि (r) यन्तस्तेऽप्यात्मनो (मु०)। स्ववाचा प्रतिपद्यते (मु०)। 0 व्यन्ति (मु०)।