SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ द्वादश मध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 387 // स्वर्गमोक्षावाप्तिरित्येवं व्यनैषुः विनयितवन्त:- सर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहितवन्तः, नामशब्दः संभावनायाम् , श्रुतस्कन्धः१ संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति, तदुक्तं- तस्मात्कल्याणानां सर्वेषां भाजनं विनय इति // 3 // 537 // किंचान्यत्संख्यानं संख्या-परिच्छेदः उप-सामीप्येन संख्या उपसंख्या-सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुप समवसरणम्, संख्यया- अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः स्वाग्रहास्ता इति एतद्- यथा विनयादेव केवलात्स्वर्गमोक्षावाप्तिरि- सूत्रम् 1-4 (535-538) त्युदाहृतवन्तः, एतच्च ते महामोहाच्छादिता उदाहुः उदाहृतवन्तः- यथैवं सर्वस्य विनयप्रतिपत्त्या स्वोऽर्थः- स्वर्गमोक्षादिकः / प्रवादचतुष्क अस्माकं अवभासते आविर्भवति प्राप्यते इतियावत्, अनुपसंख्योदाहृतिश्च तेषामेवमवगन्तव्या, तद्यथा- ज्ञानक्रियाभ्यां परतीर्थिक मोक्षसद्भावे सति तदपास्य विनयादेवैकस्मात्तदवाप्त्यभ्युपगमादिति, यदप्युक्तं 'सर्वकल्याणभाजनं' विनय इति तदपिल परिहारंच सम्यग्दर्शनादिसंभवे सति विनयस्य कल्याणभाक्त्वं भवति नैककस्येति, तद्रहितो हि विनयोपेतः सर्वस्य प्रह्वतया 8 न्यत्कारमेवापादयति, ततश्च विवक्षितार्थावभासनाभावात्तेषामेवंवादिनामज्ञानावृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ता वैनयिकाः॥ साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः पश्चार्धमाह- लवं- कर्म तस्मादपशङ्कितुं- अपसर्तुं शीलं येषां ते लवापशङ्किनो लोकायतिकाः शाक्यादयश्च, तेषामात्मैव नास्ति कुतस्तत्क्रिया तज्जनितो वा कर्मबन्ध इति, उपचारमात्रेण त्वस्ति बन्धः, तद्यथा- बद्धा मुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः। न चान्ये द्रव्यतः सन्ति, मुष्टिग्रन्थिकपोतकाः॥१॥ तथाहिबौद्धानामयमभ्युपगमो, यथा-'क्षणिकाः सर्वसंस्कारा' इति अस्थितानांच कुतः क्रिये' त्यक्रियावादित्वम्, योऽपि स्कन्ध- 30 पञ्चकाभ्युपगमस्तेषांसोऽपि संवृतिमात्रेण न परमार्थेन, यतस्तेषामयमभ्युपगमः, तद्यथा-विचार्यमाणाः पदार्थान कथञ्चिद 0 विनीत० (मु०)। 0 जनं तदपि (मु०)। 0 तस्मादवश० (प्र०)। 0 लवावशङ्किनः। अग्रेऽपि अत्र गाथायाम् /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy