SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध:१ द्वादशमध्ययन समवसरणम्, सूत्रम् 1-4 (535-538) प्रवादचतुष्कं परतीर्थिक परिहारंच श्रीसूत्रकृताङ्ग प्रवर्तमानोऽर्थक्रियार्थी न विसंवाद्यत इति / किंच- अज्ञानप्रमादवद्भिः पादेन शिरःस्पर्शनेऽपि स्वल्पदोषतां परिज्ञायैवाज्ञानं नियुक्ति श्रेय इत्यभ्युपगम्यते, एवं च सति प्रत्यक्ष एव स्यादभ्युपगमविरोधो, नानुमानं प्रमाणमिति / तथा तदेवं सर्वथा ते अज्ञानश्रीशीला० वृत्तियुतम् वादिनः अकोविदा धर्मोपदेशं प्रत्यनिपुणाः स्वतोऽकोविदेभ्य एव स्वशिष्येभ्य आहुः कथितवन्तः, छान्दसत्वाच्चैकवचनं सूत्रे श्रुतस्कन्ध: 17 कृतमिति / शाक्या अपि प्रायशोऽज्ञानिकाः, अविज्ञोपचितं कर्म बन्धं न यातीत्येवं यतस्तेऽभ्युपगमयन्ति, तथा ये च // 386 // बालमत्तसुप्तादयोऽस्पष्टविज्ञाना अबन्धका इत्येवमभ्युपगमं कुर्वन्ति, ते सर्वेऽप्यकोविदा द्रष्टव्या इति / तथाऽज्ञानपक्षसमा-2 श्रयणाचाननुविचिन्त्य भाषणान्मृषा ते सदा वदन्ति / अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच्च सत्यवादस्य, अतो ज्ञानानभ्युपगमादनुविचिन्त्य भाषणाभावः, तदभावाच्च तेषां मृषावादित्वमिति // 2 // 536 / / साम्प्रतं वैनयिकवादं निराचिकीर्षुः प्रक्रमते-सद्भ्यो हितं सत्यं परमार्थो यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तदुपायभूतो वा संयमः सत्यं / तदसत्यं इति एवं विचिन्तयन्तो मन्यमानाः, एवमसत्यमपि सत्यमिति मन्यमानाः तथाहि-सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्यविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपत्त्या साधु इति एवं उदाहरन्तः प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं * विनयादेव धर्म इत्येवमभ्युपगमात्, क एते इत्येतदाह- ये इमे बुद्ध्या प्रत्यक्षासन्नीकृता जना इव प्राकृतपुरुषा इव जना विनयेन चरन्ति वैनयिका- विनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्येवंवादिनः अनेके बहवो द्वात्रिंशद्भेदभिन्नत्वात्तेषाम्, ते च विनयचारिणः केनचिद्धर्मार्थिना पृष्टाः सन्तोऽपिशब्दादपृष्टा वा भावं परमार्थं यथार्थोपलब्धं स्वाभिप्रायं वा विनयादेव 7 किरियं अकिरियमित्याद्यगाथायामेकवचनस्य समाधानमिदमाभाति / समुच्चयार्थत्वात्तच्छब्देनानुविचिन्त्य भाषणपरामर्शः / 0 ०कारिणः।७ लम्भं प्र० /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy