SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 383 // पलापितयाऽत्यन्तमसम्बद्धा अतस्तानेवादावाह- अज्ञानं विद्यते येषामज्ञानेन वा चरन्तीत्यज्ञानिकाः आज्ञानिका वा श्रुतस्कन्धः१ तावत्प्रदर्श्यन्ते, ते चाज्ञानिकाः किल वयं कुशला इत्येवंवादिनोऽपिसन्तः असंस्तुता अज्ञानमेव श्रेय इत्येवंवादितया असम्बद्धाः, द्वादश मध्ययन असंस्तुतत्वादेव विचिकित्सा-चित्तविप्लुतिश्चित्तभ्रान्तिः संशीतिस्तांन तीर्णा- नातिक्रान्ताः, तथाहि ते ऊचुः- य एते ज्ञानिनस्ते समवसरणम्, परस्परविरुद्धवादितया न यथार्थवादिनोभवन्ति, तथाहि- एके सर्वगतमात्मानंवदन्ति तथाऽन्ये असर्वगतं अपरे अङ्गुष्ठपर्वमानं सूत्रम् 1-4 (535-538) केचन श्यामाकतन्दुलमात्रमन्ये मूर्तममूर्तं हृदयमध्यवर्तिनं ललाटव्यवस्थितमित्याद्यात्मपदार्थ एव सर्वपदार्थपुरःसरे तेषांक प्रवादचतुष्क नैकवाक्यता, न चातिशयज्ञानी कश्चिदस्ति यद्वाक्यं प्रमाणीक्रियेत, न चासौ विद्यमानोऽप्युपलक्ष्यतेऽर्वाग्दर्शिना, नासर्वज्ञः परतीर्थिक सर्वज्ञं जानाती'ति वचनात्, तथा चोक्तं- सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः। तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम्? परिहारंच 1 // न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः ,संभवाभावश्चेतरेतराश्रयत्वात्, तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्त्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलम्, तथाहि- यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यम्, तत्रार्वाग्भागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहितत्वात्, अर्वाग्भागस्यापि भागत्रयकल्पनात्तत्सर्वारातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोश्च स्वभावविप्रकृष्ट-2 वादग्दर्शिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिच्छेदात्सर्ववादिनां चल परस्परविरोधेन पदार्थस्वरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः, तथाहि- यद्यज्ञानवान् कथञ्चित्पादेन शिरसि हन्यात् तथापि चित्तशुद्धेर्न तथाविधदोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽ (r) असम्बद्धभाषिणः। ॐ सर्वं जाना० (मु०)।® ०ग्दर्शनिनां (मु०)। // 38
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy