________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 384 // श्रुतस्कन्धः१ द्वादशमध्ययन समवसरणम्, सूत्रम् 1-4 (535-538) प्रवादचतुष्कं परतीर्थिक परिहारंच सम्बद्धाः, न चैवंविधां चित्तविप्लुतिं वितीर्णा इति / तत्रैवंवादिनस्ते अज्ञानिका अकोविदा' अनिपुणाः सम्यक्परिज्ञानविकला इत्यवगन्तव्याः, तथाहि-यत्तैरभिहितं ज्ञानवादिनः परस्परविरुद्धार्थवादितया न यथार्थवादिन'इति, तद्भवत्वसर्वज्ञप्रणीतागमाभ्युपगमवादिनामयथार्थवादित्वम्, न चाभ्युपगमवादा एव बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमवादिनां तुन क्वचित्परस्परतो विरोधः, सर्वज्ञत्वान्यथानुपपत्तेरिति, तथाहि- प्रक्षीणाशेषावरणतया रागद्वेषमोहानामनृतकारणानामभावान्न तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवतां न विरोधवादित्वमिति / ननु च स्यादेतद् यदि सर्वज्ञः कश्चित्स्यात्, न चासौ संभवतीत्युक्तं प्राक्, सत्यमुक्तमयुक्तं तूक्तम्, तथाहि- यत्तावदुक्तं न चासौ विद्यमानोऽप्युपलक्ष्यतेऽर्वाग्दर्शिनेति' तदयुक्तम्, यतोयद्यपि परचेतोवृत्तीनांदुरन्वयत्वात्सरागा वीतरागाइवचेष्टन्ते वीतरागाःसरागा इवेत्यतः प्रत्यक्षेणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्बाधकप्रमाणाभावाच्च तदस्तित्वमनिवार्यम्, संभवानुमानं त्विदं- व्याकरणादिना शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं प्रत्युपलब्धः, तदत्र कश्चित्तथाभूताभ्यासवशात्सर्वज्ञोऽपिस्यादिति, न च तदभावसाधकं प्रमाणमस्ति, तथाहि-न तावदग्दर्शिप्रत्यक्षेण सर्वज्ञाभावः साधयितुं शक्यः, तस्य हि तज्ज्ञानज्ञेयविज्ञानशून्यत्वाद्, अशून्यत्वाभ्युपगमे च सर्वज्ञत्वापत्तिरिति / नाप्यनुमानेन, तदव्यभिचारिलिङ्गाभावादिति / नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यबलेन प्रवृत्तेः, न च सर्वज्ञाभावे साध्ये तादृग्विधं सादृश्यमस्ति येनासौ सिध्यतीति। नाप्यर्थापत्त्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः, प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्तनात् तस्या अप्यप्रवृत्तिः। नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात्, नापि प्रमाणपञ्चकाभावरूपेणाभावेन सर्वज्ञाभावः सिध्यति, तथाहि 0 मित्यतस्तत्प्र० (प्र०)10 शास्त्राभ्यासे करणत्वात्तृतीया यद्वाऽभ्यासाभ्यस्ययोरक्यम्। 0 बुद्धितास्तम्योपलब्धेर्विश्रान्तिसिद्धिः / // 384 //