________________ 388 श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 380 // क्रिया दैवमिति संचिन्त्य, त्येजदुद्यममात्मनः / अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति!॥१॥तथा- उद्यमाच्चारु चित्राङ्गि!, नरो भद्राणि श्रुतस्कन्धः१ पश्यति। उद्यमात्कृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ॥२॥तदेवं सर्वानपिकालादीन् कारणत्वेनाभ्युपगच्छन् तथाऽऽत्मपुण्यपाप द्वादश मध्ययन परलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः / शेषकास्तु वादा अक्रियावादाज्ञानवादवैनयिकवादा मिथ्यावादा समवसरणम्, इत्येवं द्रष्टव्याः, तथाहि- अक्रियावाद्यत्यन्तनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपलवन् मिथ्यादृष्टिरेव भवति, नियुक्तिः 119-121 अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात्?, तथा विनय समवसरणवाद्यपि विनयादेव केवलात् ज्ञानक्रियासाध्यां सिद्धिमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोऽ- निक्षेपः वगन्तव्याः। ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तः वाद्यादीनां तत्कथमिह सम्यग्दृष्टित्वेनोच्यत इति, उच्यते, स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वन् काल एवैकः लक्षणं भेदाच सर्वस्यास्य जगतः कारणं तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम्, तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीवस्य सामानाधिकरण्यात् यद्यदस्ति तत्तज्जीव इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितम्, तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणात्सम्यक्त्वमिति / ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदितानां सम्यक्त्वसद्भावः?, न हि यत्प्रत्येकं नास्ति तत्समुदायेऽपि भवितुमर्हति, सिकतातैलवत्, नैतदस्ति, प्रत्येकं पद्मरागादि // 380 मणिष्वविद्यमानापि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्किञ्चिदेतत्, तथा चोक्तं-कालोसहाव ॐ कालः स्वभावो -