SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ द्वादश श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 379 // मध्ययन समवसरणम्, स्तेन यदनुमतं-पक्षीकृतं तेन पक्षीकृतेन पक्षीकृताश्रयणेन प्रज्ञापना प्ररूपणा वर्णिता प्रतिपादिता इह अस्मिन्नध्ययने गणधरैः, श्रुतस्कन्धः 1 किमर्थमिति दर्शयति-तेषां यः सद्भाव:- परमार्थस्तस्य निश्चयो-निर्णयस्तदर्थम्, तेनैव कारणेनेदमध्ययनं समवसरणाख्यमाहुगणधराः, तथाहि-वादिनांसम्यगवसरणं- मेलापकस्तन्मतनिश्चयार्थमस्मिन्नध्ययने क्रियत इत्यतः समवसरणाख्यमिदमध्ययन कृतमिति // इदानीमेतेषां सम्यग्मिथ्यात्ववादित्वं विभागेन यथा भवति तथा दर्शयितुमाह- सम्यग्- अविपरीता दृष्टिः नियुक्तिः 119-121 दर्शनं पदार्थपरिच्छित्तिर्यस्यासौ सम्यग्दृष्टः, कोऽसावित्याह-क्रियां-अस्तीत्येवंभूतां वदितुंशीलमस्येति क्रियावादी, अत्र समवसरणच क्रियावादीत्येतद् ‘अत्थित्ति किरियवादी' त्यनेन प्राक् प्रसाधितं सदनूद्य (निरवधारणतया) सम्यग्दृष्टित्वं विधीयते, निक्षेपः तस्यासिद्धत्वादिति, तथाहि-अस्ति लोकालोकविभागः अस्त्यात्मा अस्ति पुण्यपापविभागः अस्ति तत्फलं स्वर्गनरका क्रिया वाद्यादीनां वाप्तिलक्षणं अस्ति कालः कारणत्वेनाशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पति-8 लक्षणं भेदाश्च पुष्पफलादिषु चेति, तथा चोक्तं-कालः पचति भूतानी -त्यादि, तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः, स्वो भावः स्वभाव इतिकृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्तत्वामूर्त्तत्वानांस्वस्वरूपानुविधानात् तथा धर्माधर्माकाश-2 कालादीनां च गतिस्थित्यवगाहपरत्वापरत्वादिस्वरूपापादनादिति, तथा चोक्तं- कः कण्टकाना मित्यादि। तथा नियतिरपि। कारणत्वेनाश्रीयते, तथा तथा पदार्थानां नियतेरेव नियतत्वात्, तथा चोक्तं- प्राप्तव्यो नियतिबलाश्रयेणेत्यादि। तथा पुराकृतम्, तच्च शुभाशुभमिष्टानिष्टफलं कारणम्, तथा चोक्तं- यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते। तथा तथा 8 पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते ॥१॥तथा स्वकर्मणा युक्त एव, सर्वो ह्युत्पद्यते जनः / स तथाऽऽकृष्यते तेन, न यथा / स्वयमिच्छति॥१॥ इत्यादि। तथा पुरुषकारोऽपि कारणम्, यस्मान्न पुरुषकारमन्तरेण किञ्चित्सिध्यति, तथा चोक्तं- न // 379
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy