SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध:१ द्वादश मध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 376 // षभिधे भावे भावसमवसरणं-भावमीलनमभिहितम्, अथवा अन्यथा भावसमवसरणं नियुक्तिकृदेव दर्शयति-क्रियां-जीवादि-पदार्थोऽस्तीत्यादिकांवदितुंशीलं येषां ते क्रियावादिनः, एतद्विपर्यस्ता अक्रियावादिनः, तथा अज्ञानिनो- ज्ञाननिह्नववादिनस्तथा वैनयिका विनयेन चरन्ति तत्प्रयोजना वा वैनयिकाः, एषां चतुर्णामपि सप्रभेदानामाक्षेपं कृत्वा यत्र विक्षेपः क्रियते तद्भावसमवसरणमिति, एतच्च स्वयमेव नियुक्तिकारोऽन्त्यगाथया कथयिष्यति / साम्प्रतमेतेषामेवाभिधानान्वर्थतादर्शनद्वारेण स्वरूपमाविष्कुर्वन्नाह-जीवादिपदार्थसद्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमों येषां ते अस्तीति क्रियावादिनः, ते चैवंवादित्वान्मिथ्यादृष्टयः, तथाहि-यदिजीवोऽस्त्येवे(वेऽस्तित्वमेवे)त्येवमभ्युपगम्यते, ततः सावधारणत्वान्न कथञ्चिन्नास्तीत्यतः स्वरूपसत्तावत्पररूपापत्तिरपि स्याद्, एवं च नानेकं जगत् स्यात्, न चैतद्दृष्टमिष्टं वा। तथा नास्त्येव जीवादिकः पदार्थ इत्येवंवादिनोऽक्रियावादिनः, तेऽप्यसद्भूतार्थप्रतिपादनान्मिथ्यादृष्टय एव, तथाहि- एकान्तेन जीवास्तित्वप्रतिषेधे कर्तुरभावान्नास्तीत्येतस्यापि प्रतिषेधस्याभावः, तदभावाच्च सर्वास्तित्वमनिवारितमिति / तथा न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, ते हाज्ञानमेव श्रेय इत्येवं वदन्ति, एतेऽपि मिथ्यादृष्टय एव, तथाहि-अज्ञानमेव श्रेय इत्येतदपि न ज्ञानमृते भणितुं पार्यते, तदभिधानाच्चावश्यं ज्ञानमभ्युपगतं तैरिति / तथा वैनयिका विनयादेव केवलात्स्वर्गमोक्षावाप्तिमभिलषन्तो मिथ्यादृष्टयो, यतो न ज्ञानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति / एषां च क्रियावाद्यादीनां स्वरूपं तन्निराकरणं चाचारटीकायां विस्तरेण प्रतिपादितमिति नेह प्रतन्यते // 116-118 ॥साम्प्रतमेतेषां भेदसंख्यानिरूपणार्थमाह नि०- असियसयं किरियाणं अक्किरियाणंच होइचुलसीती। अन्नाणिय सत्तट्ठी वेणइयाणंच बत्तीसा // 119 // ®क्रिययाभ्यु० (प्र०)। समवसरणम्, नियुक्तिः 119-121 समवसरणनिक्षेपः क्रियावाद्यादीनां लक्षणं भेदाच // 376 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy