________________ मध्ययनं श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 375 // समवसरन्ति व्याख्यायते वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते / एवं कालसमवसरणमपि द्रष्टव्यमिति / इदानीं भावसम श्रुतस्कन्धः१ वसरणमधिकृत्याह- भावानां- औदयिकादीनां समवसरणं- एकत्र मेलापको भावसमवसरणम्, तत्रौदयिको भाव एक- द्वादशविंशतिभेदः, तद्यथा-गतिश्चतुर्धा कषायाश्चतुर्विधाः एवं लिङ्गं त्रिविधम्, मिथ्यात्वाज्ञानासंयतत्वासिद्धत्वानि प्रत्येकमेकैक समवसरणम्, विधानि, लेश्याः कृष्णादिभेदेन षड्डिधा भवन्ति / औपशमिको द्विविधः सम्यक्त्वचारित्रोपशमभेदात् / क्षायोपशमिकोऽप्यष्टा- नियुक्तिः 116-118 दशभेदभिन्नः, तद्यथा- ज्ञानं मतिश्रुतावधिमनःपर्यायभेदाच्चतुर्धा अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गभेदात्रिविधम्, दर्शनं समवसरणचक्षुरचक्षुरवधिदर्शनभेदात्रिविधमेव, लब्धिनलाभभोगोपभोगवीर्यभेदात्पञ्चधा, सम्यक्त्वचारित्रसंयमासंयमाः प्रत्येक-2 निक्षेपः मेकप्रकारा इति। क्षायिको नवप्रकारः, तद्यथा-केवलज्ञानं केवलदर्शनं दानादिलब्धयः पञ्च सम्यक्त्वं चारित्रं चेति / क्रिया वाद्यादीनां जीवत्वभव्यत्वाभव्यत्वादिभेदात्पारिणामिकस्त्रिविधः / सान्निपातिकस्तु द्वित्रिचतुष्पञ्चकसंयोगैर्भवति, तत्र द्विकसंयोगः लक्षणं भेदाश्च सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्ट्यविरतविरतानामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्यः, तथा भवस्थकेवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावसद्भावाद्विज्ञेय इति, चतुष्कसंयोगोऽपि क्षायिकसम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात्, तथौपशमिकसम्यग्दृष्टीनामौदयिकौपशमिकक्षायोपशमिकपारिणामिकभावसद्भावाच्चेति, पञ्चकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपञ्चकसद्भावाद्विज्ञेय इति, तदेवं भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात्संभविनः // 375 // सान्निपातिकभेदाः षड् भवन्ति, एत एव च त्रिकसंयोगचतुष्कसंयोगगतिभेदात्पञ्चदशधा प्रदेशान्तरेऽभिहिता इति / तदेवं (r) एव त्रिक० (प्र०)।