________________ द्वादश मध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 374 // समवसरण क्रिया // अथ द्वादशमध्ययनं समवसरणाख्यम् // श्रुतस्कन्ध:१ उक्तमेकादशमध्ययनम्, साम्प्रतंद्वादशमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने मार्गोऽभिहितः, सच कुमार्ग-30 व्युदासेन सम्यग्मार्गतांप्रतिपद्यते, अतः कुमार्गव्युदासंचिकीर्षुणा तत्स्वरूपमवगन्तव्यमित्यतस्तत्स्वरूपनिरूपणार्थमिद समवसरणम्, मध्ययनमायातम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-कुमाभिधायि नियुक्तिः 116-118 नां क्रियाऽक्रियाऽज्ञानिकवैनयिकानां चत्वारि समवसरणानीह प्रतिपाद्यन्ते, नामनिष्पन्ने तु निक्षेपे समवसरणमित्येतन्नाम तन्निक्षेपार्थं नियुक्तिकृदाह निक्षेपः नि०-समवसरणेऽवि छक्कं सच्चित्ताचित्तमीसगंदव्वे।खेत्तंमि जंमि खेत्ते काले जंजंमि कालंमि // 116 / / वाद्यादीनां नि०- भावसमोसरणं पुणणायव्वं छव्विहमि भावंमि / अहवा किरिय अकिरिया अन्नाणी चेव वेणइया // 117 // लक्षणं भेदाच नि०- अस्थित्ति किरियवादी वयंतिणत्थि अकिरियवादी य / अण्णाणी अण्णाणं विणइत्ता वेणइयवादी॥११८॥ समवसरणमिति सृ गता' वित्येतस्य धातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपम्, सम्यग्- एकीभावेनावसरणं- एकत्र गमनं मेलापकः समवसरणं तस्मिन्नपि, न केवलं समाधौ, षड्डिधो नामादिको निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यविषयं / पुनः समवसरणं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्त्रिविधम्, सचित्तमपि द्विपदचतुष्पदापदभेदा-3 त्रिविधमेव, तत्र द्विपदानांसाधुप्रभृतीनां तीर्थकृज्जन्मनिष्क्रमणप्रदेशादौ मेलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादौ, अपदानां तु वृक्षादीनां स्वतो नास्ति समवसरणम्, विवक्षया तु काननादौ भवत्यपि, अचित्तानां तु व्यणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावोऽवगन्तव्य इति / क्षेत्रसमवसरणं तु परमार्थतो नास्ति, विवक्षया तु यत्र द्विपदादयः // Box //