________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 372 // कालेऽनन्ताः समतिक्रान्ताः ते सर्वेऽप्येवंभूतं भावमार्गमुपन्यस्तवन्तः, तथा ये चानागता भविष्यदनन्तकालभाविनोऽनन्ता एव श्रुतस्कन्धः१ तेऽप्येवमेवोपन्यसिष्यन्ति, चशब्दाद्वर्तमानकालभाविनश्चसंख्येया इति / न केवलमुपन्यस्तवन्तोऽनुष्ठितवन्तश्चेत्येतद्दर्शयति एकादश मध्ययनं शमनं शान्तिः- भावमार्गस्तेषामतीतानागवतर्वमानकालभाविनांबुद्धानांप्रतिष्ठानं- आधारोबुद्धत्वस्यान्यथानुपपत्तेः, यदिवा मार्गः, शान्तिः- मोक्षः स तेषां प्रतिष्ठानं- आधारः, तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनु- सूत्रम् 37-38 (533-53) ष्ठितवन्तश्च (इति) गम्यते / शान्तिप्रतिष्ठानत्वे दृष्टान्तमाह- भूतानां स्थावरजङ्गमानां यथा जगती त्रिलोकी प्रतिष्ठानं एवं तेल अज्ञानिनः सर्वेऽपि बुद्धाः शान्तिप्रतिष्ठाना इति // 36 // 532 // प्रतिपन्नभावमार्गेण च यद्विधेयं तद्दर्शयितुमाह समाधिहीनाः अहणं वयमावन्नं फासा उच्चावया फुसे। ण तेसु विणिहण्णेज्जा, वाएण व महागिरी / / सूत्रम् 37 // // 533 // ) संवुडे से महापन्ने, धीरे दत्तेसणं चरे। निव्वुडे कालमाकंखी, एवं (यं) केवलिणो मयं / / सूत्रम् 38 // ( // 534 // ) तिबेमि / इति मोक्षमार्गनामकं एकादशमध्ययनं समाप्तम् // (गाथाग्रं 546) अथ भावमार्गप्रतिपत्त्यनन्तरं साधुं प्रतिपन्नव्रतं सन्तं स्पर्शाः- परीषहोपसर्गरूपाः उच्चावचा गुरुलघवो नानारूपा वा स्पृशेयुः / / अभिद्रवेयुः, स च साधुस्तैरभिद्रुतः संसारस्वभावमपेक्षमाणः कर्मनिर्जरां च न तैरनुकूलप्रतिकूलैर्विनिहन्यात्, नैव संयमानुष्ठानान्मनागपि विचलेत्, किमिव?, महावातेनेव महागिरिः- मेरुरिति / परीषहोपसर्गजयश्चाभ्यासक्रमेण विधेयः, अभ्यासवशेन हि दुष्करमपि सुकरं भवति, अत्र च दृष्टान्तः, तद्यथा- कश्चिद्गोपस्तदहर्जातं तर्णकमुत्क्षिप्य गवान्तिकं नयत्यानयति च, ततोऽसावनेनैव च क्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपन्नभ्यासवशाविहायनं त्रिहायणमप्युत्क्षिपति, 0 विहन्यात् (मु०)।