SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ एकादशमध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 371 // मार्गः, सूत्रम् 33-36 (529-532) अज्ञानिनः समाधिहीना: जन्तवो जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्रक्षणे सामर्थ्यं कुर्यात् तत् कुर्वंश्च संयमानुष्ठाने परिव्रजेदिति // ३३॥५२९॥संयमविघ्नकारिणामपनयनार्थमाह-अतीव मानोऽतिमानश्चारित्रमतिक्रम्य यो वर्तते चकारादेतद्देश्यः क्रोधोऽपि परिगृह्यते, एवमतिमायाम्, चशब्दादतिलोभं च, तमेवंभूतं कषायवातं संयमपरिपन्थिनं पण्डितो विवेकी परिज्ञाय सर्वमेनं संसारकारणभूतं कषायसमूहं निराकृत्य निर्वाणमनुसन्धयेत्, सति च कषायकदम्बके न सम्यक् संयमः सफलता प्रतिपद्यते, तदुक्तं- सामण्णमणुचरंतस्स, कसाया जस्स उक्कडा होति / मण्णामि उच्छुपुप्फ व, निष्फलं तस्स सामण्णं ॥१॥तन्निष्फलत्वेचन मोक्षसंभवः, तथा चोक्तं- संसारादपलायनप्रतिभुवो रागादयो मे स्थितास्तृष्णाबन्धनबध्यमानमखिलं किं वेत्सि नेदं जगत्? / मृत्यो! मुश्च जराकरेण परुष केशेषु मा मा ग्रहीरेहीत्यादरमन्तरेण भवतः किं नागमिष्याम्यहम्?॥१॥इत्यादि / तदेवमेवंभूतकषायपरित्यागादच्छिन्नप्रशस्तभावानुसन्धनया निर्वाणानुसन्धानमेव श्रेय इति // 34 // 530 / किञ्च- साधूनां धर्मः क्षान्त्यादिको दशविधः सम्यग्दर्शनज्ञानचारित्राख्यो वा तं अनुसन्धयेत् वृद्धिमापादयेत्, तद्यथा- प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं तथा शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनं अस्खलितमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वाभिग्रहग्रहणेन / च चारित्रं वृद्धिमापादयेदिति, पाठान्तरं वा 'सहहे साधुधम्मंच' पूर्वोक्तविशेषणविशिष्टं साधुधर्मं मोक्षमार्गत्वेन श्रद्दधीतनिःशङ्कतया गृह्णीयात्, चशब्दात्सम्यगनुपालयेच्च, तथा पापं- पापोपादानकारणं धर्मं पाण्युपमर्दैन प्रवृत्तं निराकुर्यात्, तथोपधानं- तपस्तत्र यथाशक्त्या वीर्यं यस्य स भवत्युपधानवीर्यः, तदेवंभूतो भिक्षुः क्रोधं मानं च न प्रार्थयेत् न वर्धयेद्वेति // 35 ॥५३१॥अथैवंभूतं भावमार्गं कि वर्धमानस्वाम्येवोपदिष्टवान् उतान्येऽपीत्येतदाशङ्कयाह- ये बुद्धाः- तीर्थकृतोऽतीतेऽनादिके 0 श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति / मन्ये इक्षुपुष्पमिव निष्फलं तस्य श्रामण्यम् // 1 // * उक्कडा होति जस्स उ कसाया (प्र०)। //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy