________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 369 / श्रुतस्कन्धः१ एकादशमध्ययनं मार्गः, सूत्रम् 29-32 (525-528) अज्ञानिनः समाधिहीनाः भवन्तीति // 28 // 524 // किञ्च सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती। उम्मग्गगता दुक्खं, घायमेसंति तंतहा // सूत्रम् 29 / / ( // 525 // ) जहा आसाविणिं नावं, जाइअंधो दुरूहिया / इच्छई पारमागंतुं, अंतरा य विसीयति // सूत्रम् 30 // // 526 // ) एवं तु समणा एगे, मिच्छद्दिट्ठी अणारिया।सोयं कसिणमावन्ना, आगंतारो महब्भयं।सूत्रम् 31 // ( // 527 // ) इमंच धम्ममादाय, कासवेण पवेदितं / तरे सोयं महाघोरं, अत्तत्ताए परिव्वए।सूत्रम् 32 // ( // 528 // ) शुद्धं अवदातं निर्दोष मार्गं सम्यग्दर्शनादिकं मोक्षमार्ग कुमार्गप्ररूपणया विराध्य दूषयित्वा इह अस्मिन्संसारे मोक्षमार्गप्ररूपणप्रस्तावे वा एके शाक्यादयः स्वदर्शनानुरागेण महामोहाकुलितान्तरात्मानो दुष्टा पापोपादानतया मतिर्येषां ते दुष्टमतयः सन्त उन्मार्गेण-संसारावतरणरूपेण गताः- प्रवृत्ता उन्मार्गगता दुःखयतीति दुःखं- अष्टप्रकारं कर्मासातोदयरूपं वा तदुःखं घातं चान्तशस्ते तथा- सन्मार्गविराधनया उन्मार्गगमनं च एषन्ते अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीत्यर्थः॥ 29 // ५२५॥शाक्यादीनांचापायं दिदर्शयिषुस्तावद्दृष्टान्तमाह- यथा जात्यन्ध आस्राविणीं शतच्छिद्रांनावमारुह्य पारमागन्तुमिच्छति, न चासौ सच्छिद्रतया पारगामी भवति, किं तर्हि?, अन्तराल एव- जलमध्य एव विषीदति-निमज्जतीत्यर्थः // 30 // 526 // 8 दार्टान्तिकमाह- एवमेव श्रमणा एके शाक्यादयो मिथ्यादृष्टयोऽनार्या भावस्रोतः- कर्माश्रवरूपं कृत्स्नं संपूर्णमापन्नाः सन्तस्ते महाभयं पौनःपुन्येन संसारपर्यटनया नारकादिस्वभावं दुःखं आगन्तारः आगमनशीला भवन्ति, न तेषां संसारोदधेराम्राविणी नावं व्यवस्थितानामिवोत्तरणं भवतीति भावः॥ 31 // 527 // यतः शाक्यादयः श्रमणाः मिथ्यादृष्टयोऽनार्याः कृत्स्नं (c) एषन्ति (प्र०)।