SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 368 // मार्गः, दृष्टो, ध्यानं तत्र कुतः शुभम्?॥१॥इति, तथा- मोहस्यायतनं धृतेरपचयः शान्तेः प्रतीपो विधिप्क्षेपस्य सुहृन्मदस्य भवनं पापस्य श्रुतस्कन्धः१ वासो निजः / दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च // 1 // तदेवं एकादश मध्ययनं पचनपाचनादिक्रियाप्रवृत्तानां तदेव चानुप्रेक्षमाणानां कुतः शुभध्यानस्य संभवः? इति / अपिच-तेतीर्थिका धर्माधर्मविवेके कर्तव्ये अखेदज्ञा अनिपुणाः, तथाहि- शाक्या मनोज्ञाहारवसतिशय्यासनादिकं रागकारणमपि शुभध्याननिमित्तत्वेना-सूत्रम् 25-28 (521-524) ध्यवस्यन्ति, तथा चोक्तं-मणुण्णं भोयणं भुच्चे त्यादि, तथा मांसं कल्किकमित्युपदिश्य संज्ञान्तरसमाश्रयणान्निर्दोषं मन्यन्ते, अज्ञानिन: बुद्धसङ्घादिनिमित्तं चारम्भं निर्दोषमिति, तदुक्तं- मंसनिवत्तिं काउंसेवइ दंतिक्कगति धणिभेया। इय चइऊणारंभ परववएसा कुणइ समाधिहीना: बालो॥१॥न चैतावता तन्निर्दोषता, न हि लूतादिकं शीतलिकाद्यभिधानान्तरमात्रेणान्यथात्वं भजते, विष वा मधुरकाभिधानेनेति, एवमन्येषामपि कापिलादीनामाविर्भावतिरोभावाभिधानाभ्यां विनाशोत्पादावभिदधतामनैपुण्यमाविष्करणीयम्। तदेवं ते वराकाः शाक्यादयो मनोज्ञोद्दिष्टभोजिनः सपरिग्रहतयाऽऽर्तध्यायिनोऽसमाहिता मोक्षमार्गाख्याद्भावसमाधेरसंवृततया 1 दूरेण वर्तन्त इत्यर्थः // 26 // 522 // यथा चैते रससातागौरवतयाऽऽर्तध्यायिनो भवन्ति तथा दृष्टान्तद्वारेण दर्शयितुमाहयथेत्युदाहरणोपन्यासार्थः यथा येन प्रकारेण ढङ्कादयः पक्षिविशेषा जलाशयाश्रया आमिषजीविनो मत्स्यप्राप्तिं ध्यायन्ति, एवंभूतं च ध्यानमार्तरौद्रध्यानरूपतयाऽत्यन्तकलुषमधमं च भवतीति // 27 // 523 // दार्टान्तिकं दर्शयितुमाह- एव मिति यथा ढङ्कादयोमत्स्यान्वेषणपरं ध्यानध्यायन्ति तद्ध्यायिनश्च कलुषाधमा भवन्ति एवमेव मिथ्यादृष्टयः श्रमणा एके शाक्यादयोऽनार्यकर्मकारित्वात्सारम्भपरिग्रहतया अनार्याः सन्तो विषयाणां- शब्दादीनां प्राप्तिं ध्यायन्ति तद्ध्यायिनश्च कङ्का इव कलुषाधमा / ®मित्यपदिश्य (प्र०)। ®मांसनिवृत्तिं कृत्वा सेवते इदं कल्किकमिति ध्वनिभेदाद् / एवं त्यक्त्वारम्भं परव्यपदेशात्करोति बालः॥१॥ 0 मधुरं विषे इत्युक्तेः // 368 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy