________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 358 // तदुपादानम्, तेषां पृच्छतां कतरं मार्गमहं आख्यास्ये कथयिष्ये, तदेतदस्माकं त्वं जानानः कथयेति // 3 // 499 // एवं पृष्टः श्रुतस्कन्धः 1 सुधर्मस्वाम्याह- यदि कदाचित् वः युष्मान् केचन देवा मनुष्या वा संसारभ्रान्तिपराभग्नाः सम्यग्मार्ग पृच्छेयुस्तेषां पृच्छतां इम एकादश मध्ययनं मिति वक्ष्यमाणलक्षणं षड्जीवनिकायप्रतिपादनगर्भं तद्रक्षाप्रवणं मार्ग पडिसाहेजत्ति प्रतिकथयेत्, मार्गसारं मार्गपरमार्थं यं चचा मार्गः, भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तत् मे मम कथयतः शृणुत यूयमिति, पाठान्तरं वा तेसिंतु इमं मग्गं आइक्खेज सुणेह मे'त्ति। सूत्रम् 5-8 उत्तानार्थम् // 4 // 500 // पुनरपि मार्गाभिष्टवं कुर्वन्सुधर्मस्वाम्याह (501-504) मार्गप्रश्न: अणुपुव्वेण महाघोरं, कासवेण पवेइयं / जमादाय इओ पुव्वं, समुदं ववहारिणो॥सूत्रम् 5 // // 501 // ) उत्तरंच अतरिंसुतरतेगे, तरिस्संति अणागया। तं सोच्चा पडिवक्खामि, जंतवोतंसुणेह मे ॥सूत्रम् 6 // // 502 // ) पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी / वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा // सूत्रम् 7 // ( // 503 // ) अहावरा तसा पाणा, एवं छक्काय आहिया / एतावए जीवकाए, णावरे कोइ विजई।सूत्रम् 8 // // 504 // ) यथाऽहूं अनुपूर्वेण अनुपरिपाट्या कथयामि तथा शृणुत, यदिवा यथा चानुपूर्व्या सामग्र्या वा मार्गोऽवाप्यते तच्छृणुत, तद्यथा- पढमिलुगाण उदएइत्यादि तावद्यावत् बारसविहे कसाए खविए उवसामिए व जोगेहिं / लब्भइ चरित्तलंभोइत्यादि, तथा : चत्तारि परमंगाणीत्यादि / किंभूतं मार्ग?, तमेव विशिनष्टि-कापुरुषैः संग्रामप्रवेशवत् दुरध्यवसेयत्वात् महाघोरं महाभयानकं 8 (r) इत्ताव एव प्र० / (c) दृश्यमानेषु बहुष्वादशॆषु नावरे विज्जती काए इत्येव पाठ उपलभ्यते, प्राङ् मुद्रिते त्वेष ईदृशः, क्वचित् नावरे विज्जती कएत्ति पाठः छन्दोऽ- // 358 // नुलोम्येन कायस्य स्याद्धस्वता चेन्नासुन्दरः सः। 0 प्राथमिकानामुदये / 0 द्वादशविधेषु कषायेषु क्षपितेषूपशमितेषु वा योगैः / लभते चारित्रलाभम् / / 7 चत्वारि परमाङ्गानि। 888888888888