________________ श्रुतस्कन्धः१ एकादशमध्ययन श्रीसूत्रकृता नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 356 // मार्गः, सूत्रम् 1-4 (497-500) मार्गप्रश्नः उत्तरंच धृतिः सम्यग्दर्शने सति चारित्रावस्थानं माषतुषादाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते 5, तथा सुगति रिति शोभना गतिरस्मात् ज्ञानाच्चारित्राच्चेति सुगतिः, 'ज्ञानाक्रियाभ्यां मोक्ष' इति न्यायात्सुगतिशब्देन ज्ञानक्रिये अभिधीयेते, दर्शनस्य तु ज्ञानविशेषत्वादत्रैवान्तर्भावोऽवगन्तव्यः६, तथा हित मिति परमार्थतो मुक्त्यवाप्तिस्तत्कारणंवा हितम्, तच्चसम्यग्दर्शनज्ञानचारित्राख्यमवगन्तव्यमिति 7, अत्रच संपूर्णानां सम्यग्दर्शनादीनां मोक्षमार्गत्वेसति यव्यस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोपसर्जनविवक्षया न दोषायेति, तथा सुख मिति सुखहेतुत्वात्सुखं- उपशमश्रेण्यामुपशामकं प्रत्यपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायरूपा गुणत्रयावस्था 8, तथा पथ्य मिति पथि- मोक्षमार्गे हितं पथ्यम्, तच्च क्षपकश्रेण्यांपूर्वोक्तं गुणत्रयं९, तथा श्रेय इत्युपशमश्रेणिमस्तकावस्था, उपशान्तसर्वमोहावस्थेत्यर्थः 10, तथा निर्वृतिहेतुत्वान्निवृतिः क्षीणमोहावस्थेत्यर्थः, मोहनीयविनाशेऽवश्यं निर्वृतिसद्भावादितिभावः 11, तथा निर्वाण मिति घनघातिकर्मचतुष्टयक्षयेण केवलज्ञानावाप्तिः 12, तथा शिवं मोक्षपदं तत्करणशीलं शैलेश्यवस्थागमनमिति 13, एवमेतानि मोक्षमार्गत्वेन किञ्चिद्भेदाभेदेन व्याख्यातान्यभिधानानि, यदिवैते पर्यायशब्दा एकार्थिका मोक्षमार्गस्येति ॥११२-११५॥गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं कयरे मग्गे अक्खाए, माहणेणं मईमता?।जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ।।सूत्रम् 1 // // 497 // ) तं मग्गंणुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं / जाणासि णं जहा भिक्खू!, तंणो बूहि महामुणी।।सूत्रम् 2 // ( // 498 // ) जइ णो केइ पुच्छिज्जा, देवा अदुव माणुसा / तेसिं तु कयरं मग्गं, आइक्खेज? कहाहि णो।सूत्रम् 3 // ( / / 499 // ) जइ वो केइ पुच्छिज्जा, देवा अदुव माणुसा। तेसिमं पडिसाहिज्जा, मग्गसारं सुणेह मे // सूत्रम् 4 // ( // 500 / ) // 356 //