SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 355 // श्रुतस्कन्धः१ एकादशमध्ययन मार्ग:, नियुक्तिः 112-115 मार्गनिक्षेपादिः भवतीति / तुशब्दोऽस्य दुर्गतिफलनिबन्धनत्वेन विशेषणार्थ इति ॥स्वयूथ्यानामपि पार्श्वस्थादीनांषड्जीवनिकायोपमर्दकारिणां कुमार्गाश्रितत्वं दर्शयितुमाह-ये केचन अपुष्टधर्माणः शीतलविहारिणः ऋद्धिरससातगौरवेण गुरुकाः गुरुकर्माण आधाकर्माद्युपभोगाभ्युपगमेन षड्जीवनिकायव्यापादनरताश्च अपरेभ्यो मार्ग मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहि-शरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहानेश्चाधाकर्माधुपभोगोऽपि न दोषायेत्येवं प्रतिपादयन्ति, ते चैवं प्रतिपादयन्तः कुत्सितमार्गास्तीर्थिकास्तन्मार्गाश्रिता भवन्ति / तुशब्दादेतेऽपिस्वयूथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्ति किंपुनस्तीर्थिका इति // प्रशस्तशास्त्रप्रणयनेन सन्मार्गाविष्करणायाह- तप:- सबाह्याभ्यन्तरं द्वादशप्रकार तथा संयमः- सप्तदशभेदः पञ्चाश्रवविरमणादिलक्षणस्ताभ्यां प्रधानास्तपःसंयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवंभूता यं सद्भावं परमार्थं जीवाजीवादिलक्षणं वदन्ति प्रतिपादयन्ति, किंभूतं!- सर्वस्मिन् जगति ये जीवास्तेभ्यो हितं- पथ्यं तद्रक्षणतस्तेषां सदुपदेशदानतो वा तं सन्मार्ग सम्यग्मार्गज्ञाः सम्यग् अविपरीतत्वेन प्रणीतं आहुः उक्तवन्त इति // साम्प्रतं सन्मार्गस्यैकार्थिकान् दर्शयितुमाह- देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, स चेह भावमार्गाधिकारे सम्यक्त्वावाप्तिरूपोऽवगन्तव्यः 1, तथा मार्ग इति पूर्वस्माद्विशुद्ध्या विशिष्टतरो मार्गः, स चेह सम्यग्ज्ञानावाप्तिरूपोऽवगन्तव्यः 2, तथा न्याय इति निश्चयेनायनं-विशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति सन्यायः,सचेह सम्यक्चारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामयं न्याय एव यदुत अवाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यक्चारित्रेण योगो भवतीत्यतो न्यायशब्देनात्र चायशब्दना चारित्रयोगोऽभिधीयत इति 3, तथा विधि रिति विधानं विधिः सम्यग्दर्शनज्ञानयोयोगपद्येनावाप्तिः 4, तथा धृति रिति धरणं 0 प्रशस्तशास्तृप्र० (प्र०)। (c) ज्ञानदर्शनयो (मु०)। // 355 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy