SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 354 // 58888888 इति ॥साम्प्रतं मार्ग भङ्गद्वारेण निरूपयितुमाह, तद्यथा- एकः क्षेमो मार्गस्तस्करसिंहव्याघ्राद्युपद्रवरहितत्वात् तथा क्षेमरूपश्च श्रुतस्कन्धः 1 समत्वात्तथा छायापुष्पफलवद्वक्षोपेतजलाश्रयाकुलत्वाच्च १,तथा परः क्षेमो निश्चौरः किंत्वक्षेमरूप उपलशकलाकुलगिरि-8 एकादश मध्ययन नदीकण्टकगांशताकुलत्वेन विषमत्वात्, तथाऽपरोऽक्षेमस्तस्करादिभयोपेतत्वात्क्षेमरूपश्चोपलशकलाद्यभावतया समत्वात्, मार्गः, तथाऽन्यो न क्षेमो नापि क्षेमरूपः सिंहव्याघ्रतस्करादिदोषदुष्टत्वात्तथा गर्तापाषाणनिम्नोन्नतादिदोषदुष्टत्वाचेति, एवं भाव नियुक्तिः 112-115 मार्गोऽप्यायोज्यः, तद्यथा- ज्ञानादिसमन्वितो द्रव्यलिङ्गोपेतश्च साधुः क्षेमः क्षेमरूपश्च, तथा क्षेमोऽक्षेमरूपस्तुस एव भावसाधुः मार्गनिक्षेपादिः कारणिको द्रव्यलिङ्गरहितः, तृतीयभङ्गकगता निह्नवाः, परतीर्थिका गृहस्थाश्च चरमभङ्गकवर्तिनो द्रष्टव्याः। एवमनन्तरोक्तया प्रक्रियया चतुष्ककं भङ्गकचतुष्टयं मार्गादिष्वायोज्यम्, आदिग्रहणादन्यत्रापि समाध्यादावायोज्यमिति // 107-111 // सम्यग्मिथ्यात्वमार्गयोः स्वरूपनिरूपणायाह नि०- सम्मप्पणिओ मग्गोणाणे तह दंसणे चरित्ते य। चरगपरिव्वायादीचिण्णो मिच्छत्तमग्गो उ॥११२॥ नि०- इडिरससायगुरुया छज्जीवनिकायघायनिरया (य)।जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ॥११३॥ नि०- तवसंजमप्पहाणा गुणधारी जे वयंति सब्भावं। सव्वजगजीवहियं तमाहु सम्मप्पणीयमिणं // 114 / / नि०- पंथो मग्गोणाओ विहीं धिती सुगती हियं (तह) सुहं च / पत्थं सेयं णिव्वुइ णिव्वाणं सिवकरं चेव // 115 // सम्यग्ज्ञानं दर्शनं चारित्रंचेत्ययं त्रिविधोऽपि भावमार्गः सम्यग्दृष्टिभिः तीर्थकरगणधरादिभिः सम्यग्वा- यथावस्थिवस्तुतत्त्व // 354 // निरूपणया प्रणीतस्तैरेव च सम्यगाचीर्ण इति, चरकपरिव्राजकादिभिस्तु आचीर्णः आसेवितो मार्गो मिथ्यात्वमार्गोऽप्रशस्तमार्गो 0 कारणिकद्रव्य (मु०)। ॐ गृहस्था-श्वरम० (मु०) 0 चारित्रा० प्र०।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy