SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 353 // दवनमार्गः, बिलमार्गो यत्र तु गुहाद्याकारेण बिलेन गम्यते, पाशप्रधानो मार्गः पाशमार्गः पाशकूटवागुरान्वितो मार्ग इत्यर्थः, श्रुतस्कन्धः 1 कीलकमार्गो यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते, अजमार्गो यत्र अजेन-बस्तेन गम्यते, तत्- यथा मध्ययनं सुवर्णभूमि चारुदत्तो गत इति, पक्षिमार्गो यत्र भारुण्डादिपक्षिभिर्देशान्तरमवाप्यते, छत्रमार्गो यत्र छत्रमन्तरेण गन्तुं न शक्यते, मार्गः, जलमार्गो यत्र नावादिना गम्यते, आकाशमार्गो विद्याधरादीनाम्, अयं सर्वोऽपि फलकादिको द्रव्ये द्रव्यविषयेऽवगन्तव्य नियुक्तिः 107-111 इति // क्षेत्रादिमार्गप्रतिपादनायाह-क्षेत्रमार्गे पर्यालोच्यमाने यस्मिन् क्षेत्रे ग्रामनगरादौ प्रदेशे वा शालिक्षेत्रादिके वा क्षेत्रे यो मार्गनिक्षेपादिः याति मार्गो यस्मिन्वा क्षेत्रे व्याख्यायते स क्षेत्रमार्गः, एवं कालेऽप्यायोज्यम् / भावे त्वालोच्यमाने द्विविधो भवति मार्गः, तद्यथा- प्रशस्तोऽप्रशस्तश्चेति / प्रशस्ताप्रशस्तभेदप्रतिपादनायाह- द्विविधेऽपि प्रशस्ताप्रशस्तरूपे भावमार्गे प्रत्येकं त्रिविधो भेदो भवति, तत्राप्रशस्तो मिथ्यात्वमविरतिरज्ञानं चेति, प्रशस्तस्तुसम्यग्दर्शनज्ञानचारित्ररूप इति, तस्य प्रशस्ताप्रशस्तरूपस्य भावमार्गस्य विनिश्चयो निर्णयः फलं कार्य निष्ठा द्वेधा, तद्यथा- प्रशस्तः सुगतिफलोऽप्रशस्तश्च दुर्गतिफल इति / इह तु पुनः प्रस्तावः अधिकारः सुगतिफलेन प्रशस्तमार्गेणेति // तत्राप्रशस्तं दुर्गतिफलं मार्ग प्रतिपिपादयिषुस्तत्कर्तृन्निर्दिदिक्षुराह-दुर्गतिः फलंयस्य सदुर्गतिफलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषां प्रावादुकानांत्रीणि त्रिषष्ट्यधिकानि शतानि भवन्ति, दुर्गतिफलमार्गोपदेष्टुत्वं च तेषां मिथ्यात्वोपहतदृष्टितया विपरीतजीवादितत्त्वाभ्युपगमात्, तत्संख्या चैवमवगनतव्या, तद्यथा- असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं॥१॥ तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत। // 353 // (c) बस्त्येन (मु०)। ॐ भूम्यां (मु०)। Oभारण्डा० (प्र०)। 0 अशीतिशतं क्रियावादिनामक्रियावादिनां भवति चतुरशीतिः। अज्ञानिकानां सप्तषष्टि_नयिकानां च द्वात्रिंशत् // 1 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy