SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 352 // श्रुतस्कन्धः१ एकादशमध्ययनं मार्गः, नियुक्तिः 107-111 मार्गनिक्षेपादिः ॥अथ एकादशमध्ययनं मार्गाख्यम् // उक्तं दशममध्ययनम् , तदनन्तरमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने समाधिः प्रतिपादितः,स चज्ञानदर्शनतपश्चारित्ररूपोवर्तते, भावमार्गोऽप्येवमात्मक एवेत्यतोमार्गोऽनेनाध्ययनेन प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा- प्रशस्तो ज्ञानादिको भावमार्गस्तदाचरणं चात्राभिधेयमिति, नामनिष्पन्ने तु निक्षेपे मार्ग इत्यस्याध्ययनस्य नाम, तन्निक्षेपार्थ नियुक्तिकृदाह नि०-णामं ठवणा दविए खेत्ते काले तहेव भावे य / एसो खलु मग्गस्स य णिक्खेवो छव्विहो होइ / / 107 // नि०-फलगलयंदोलणवित्तरज्जुदवणबिलपासमग्गे य ।खीलगअयपक्खिपहे छत्तजलाकासदव्वंमि // 108 // नि०-खेत्तंमि जंमिखेत्ते काले कालो जहिं हवइ जो उ। भावंमि होति दुविहो पसत्थ तह अप्पसत्थो य / / 109 / / नि०-दुविहंमिवि तिगभेदो णेओ तस्स (उ) विणिच्छओ दुविहो / सुगतिफलदुग्गतिफलो पगयं सुगतीफलेणित्थं // 110 // नि०- दुग्गइफलवादीणं तिन्नि तिसट्ठा सताइ वादीणं / खेमे यखेमरूवे चउक्कगं मग्गमादीसु॥१११॥ नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्मार्गस्य षोढा निक्षेपः, तत्र नामस्थापने सुगमत्वादनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यमार्गमधिकृत्याह- फलकैर्मार्गः फलकमार्गः यत्र कर्दमादिभयात् फलकैर्गम्यते, लतामार्गस्तु यत्र लताबलेन गम्यते, अन्दोलनमार्गोऽपि यत्रान्दोलनेन दुर्गमतिलच्यते, वेत्रमार्गो यत्र वेत्रलतोपष्टम्भेन जलादौ गम्यते इति, तद्यथा- चारुदत्तो वेत्रलतोपष्टम्भेन वेत्रवती नदीमुत्तीर्य परकूलं गतः, रज्जुमार्गस्तु यत्र रज्ज्वा किञ्चिदतिदुर्गमतिलयते, दवनं ति यानं तन्मार्गो 0 लतावलम्बन (मु०)। // 352 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy