________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 350 // धर्मं भावसमाधि वा बुध्यमानस्तु विहितानुष्ठाने प्रवृत्तिं कुर्वाणस्तु पूर्वं तावन्निषिद्धाचरणान्निवर्तेत अतस्तत् दर्शयति- पापात् श्रुतस्कन्धः१ हिंसानृतादिरूपात्कर्मण आत्मानं निवर्तयेत्, निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽशेषकर्मक्षयमिच्छन्नादावेव दशममध्ययनं समाधिः, आश्रवद्वाराणि निरुन्ध्यादित्यभिप्रायः, किंचान्यत्- हिंसा-प्राणिव्यपरोपणं तया ततो वा प्रसूतानि-जातानि यान्यशुभानि सूत्रम् 21-24 कर्माणि तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि- दुःखोत्पादकानि वर्तन्ते, तथा वैरमनुबध्नन्ति तच्छीलानि च (493-496) पापाकर्तावैरानुबन्धीनि जन्मशतसहस्रदुर्मोचानि, अत एव महद्भयं येभ्यः सकाशात्तानि महाभयानीति, एवं च मत्वा मतिमानात्मानं मुनिः पापान्निवर्तयेदिति, पाठान्तरं वा 'निव्वाणभूए य परिव्वएज्जा' अस्यायमर्थः- यथा हि निर्वृतो निर्व्यापारत्वात्कस्यचिदुपघाते नवर्तते एवं साधुरपि सावद्यानुष्ठानरहितः परि-समन्ताद् व्रजेद् परिव्रजेदिति // 21 // ४९३॥तथा आप्तो- मोक्षमार्गस्तद्गामीतद्गमनशील आत्महितगामी वा आप्तो वा प्रक्षीणदोषः सर्वज्ञस्तदुपदिष्टमार्गगामी मुनिः साधुः मृषावादं अनृतमयथार्थं न ब्रूयात् / सत्यमपि प्राण्युपघातकमिति, 'एतदेव' मृषावादवर्जनं कृत्स्नं संपूर्ण भावसमाधिं निर्वाणं चाहुः, सांसारिका हि समाधयः स्नानभोजनादिजनिताः शब्दादिविषयसंपादिता वा अनैकान्तिकानात्यन्तिकत्वेन दुःखप्रतीकाररूपत्वेन वा असंपूर्णा वर्तन्ते। तदेवं मृषावादमन्येषां वा व्रतानामतिचारं स्वयमात्मना न कुर्यान्नाप्यपरेण कारयेत्तथा कुर्वन्तमप्यपरं मनोवाक्कायकर्मभिर्नानुमन्येत इति // 22 // 494 // उत्तरगुणानधिकृत्याह- उद्गमोत्पादनैषणाभिः शुद्धे निर्दोषे स्यात् कदाचित् जाते प्राप्ते पिण्डे सति साधू रागद्वेषाभ्यां न दूषयेत्, उक्तंच-बायालीसेसणसंकडंमि गहणंमि जीव! ण सि च्छलिओ। इण्हिंजह न छलिज्जसि भुंजतो रागदोसेहिं॥ 1 // तत्रापि रागस्य प्राधान्यख्यापनायाह-न मूर्छितोऽमूर्छितः- सकृदपि शोभनाहारलाभे सति गृद्धिमकुर्वन्नाहारयति, तथा ®व्रजेदिति (मु०)। (r) द्विचत्वारिंशदेषणादोषसंकटे गहने जीव! नैव छलितः / इदानीं यदि न छल्यसे भुजन् रागद्वेषाभ्यां (तदा सफलं तत्) // 1 // * हु (मु०)। // 35