________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 6 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: नियुक्ति:६-७ करण-कारण कृतानां निक्षेपादिः प्रयोगकरणं विनसाकरणंच, तत्र प्रयोगकरणं पुरुषादिव्यापारनिष्पाद्यम्, तदपि द्विविधं-मूलकरणमुत्तरकरणंच, तत्रोत्तरकरणं गाथापश्चार्द्धन दर्शयति- उत्तरत्र करणमुत्तरकरणं-कर्णवेधादि, यदिवा तन्मूलकरणं घटादिकं येनोपस्करण-दण्डचक्रादिना अभिव्यज्यते-स्वरूपतः प्रकाश्यते तदुत्तरकरणम्, कर्तुरुपकारकः सर्वोऽप्युपस्कारोऽर्थ इति ॥५॥पुनरपि प्रपञ्चतो मूलोत्तरकरणे प्रतिपादयितुमाह नि०- मूलकरणं सरीराणि पंच तिसुकण्णखंधमादीयं / दव्विंदियाणि परिणामियाणि विसओसहादीहिं॥६॥ B मूलकरणमौदारिकादीनि शरीराणि पञ्च, तत्र चौदारिकवैक्रियाहारकेषु त्रिषूत्तरकरणं कर्णस्कन्धादिकं विद्यते, तथाहि-सीसमुरोयर | पिट्ठी दो बाहू ऊरुया य अट्ठग त्ति त्रयाणामप्येतन्निष्पत्तिर्मूलकरणम्, कर्णस्कन्धाद्यङ्गोपाङ्गनिष्पत्तिस्तूत्तरकरणम्, कार्मणतैजसयोस्तुस्वरूपनिष्पत्तिरेव मूलकरणम्, अङ्गोपाङ्गाभावान्नोत्तरकरणम्,यदिवा औदारिकस्य कर्णवेधादिकमुत्तरकरणम्, वैक्रियस्य तूत्तरकरणं- उत्तरवैक्रियम्, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु गमनाद्युत्तरकरणम्, यदिवा औदारिकस्य मूलोत्तरकरणे गाथापश्चार्द्धन प्रकारान्तरेण दर्शयति- द्रव्येन्द्रियाणि कलम्बुकापुष्पाद्याकृतानि मूलकरणम्, तेषामेव परिणामिनां विविधौषधादिभि: पाटवाद्यापादनमुत्तरकरणमिति॥६॥साम्प्रतमजीवाश्रितं करणमभिधातुकाम आह नि०-संघायणे य परिसाडणा यमीसे तहेव पडिसेहो। पडसंखसगडथूणाउद्दतिरिच्छादिकरणंच॥७॥ संघातकरणं- आतानवितानीभूततन्तुसंघातेन पटस्य, परिसाटकरणं- करपत्रादिना शङ्खस्य निष्पादनम्, संघातपरिसाट (r) उपकारसमर्थ भवति संस्करणादित्यर्थः चू० / ०स्कारार्थ इत्यर्थः (मु०)। (r) कण्णवेहमाईयमिति टीकाकृद्हार्दम्। 0 कालेन संघातनादि चिन्ता विस्तरेण चूर्णी उ० बृ० वत् / 0 शीर्षमुर उदरं पृष्ठिः द्वौ बाहू उरू चाष्टौ अङ्गानि / 7 विषौषधा० (मु०)।