________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 346 // स्तितिक्षयेदिति // 14 // 486 // किञ्चान्यत्- वाचि वाचा वा गुप्तो वाग्गुप्तो- मौनव्रती सुपर्यालोचितधर्मसम्बन्धभाषी श्रुतस्कन्धः१ वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धां लेश्यां तैजस्यादिकां समाहृत्य उपादाय अशुद्धां च कृष्णादिकामपहृत्य परि- दशममध्ययनं समाधिः , समन्तात्संयमानुष्ठाने व्रजेत् गच्छेदिति, किञ्चान्यत्- गृहं- आवसथं स्वतोऽन्येन वा न छादयेदुपलक्षणार्थत्वादस्यापरमपि सूत्रम् 17-20 गृहादेरुरगवत्परकृतबिलनिवासित्वात्संस्कारं न कुर्यात्, अन्यदपि गृहस्थकर्तव्यं परिजिहीर्षुराह- प्रजायन्त इति प्रजास्तासु- (489-490) तद्विषये येन कृतेन सम्मिश्रभावो भवति तत्प्रजह्यात्, एतदुक्तं भवति- प्रव्रजितोऽपि सन् पचनपाचनादिकां क्रियां कुर्वन् / पापाकर्ताकारयंश्च गृहस्थैः सम्मिश्रभावं भजते, यदिवा-प्रजा:-स्त्रियस्तासुताभिर्वा यः सम्मिश्रीभावस्तमविकलसंयमार्थी 'प्रजह्यात् परित्यजेदिति // 15 // 487 / / अपिच- ये केचन अस्मिन् लोके अक्रिय आत्मा येषामभ्युपगमे तेऽक्रियात्मानः- साङ्ख्याः , तेषां हि सर्वव्यापित्वादात्मा निष्क्रियः पठ्यते, तथा चोक्तं- अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शनेइति, तुशब्दो विशेषणे, सचैतद्विशिनष्टि-अमूर्तत्वव्यापित्वाभ्यामात्मनोऽक्रियत्वमेवावबुध्यते, ते चाक्रियात्मवादिनोऽन्येनाक्रियत्वेसति बन्धमोक्षौ न घटेते इत्यभिप्रायवता मोक्षसद्भावं पृष्टाः सन्तोऽक्रियावाददर्शनेऽपि धूतं मोक्षसद्धावं आदिशन्ति प्रतिपादयन्ति, ते तु पचनपाचनादिके स्नानार्थं जलावगाहनरूपे वा आरम्भे सावद्ये सक्ता अध्युपपन्ना गृद्धास्तु लोके मोक्षैकहेतुभूतं धर्मं श्रुतचारित्राख्यं न जानन्ति कुमार्गग्राहिणो न सम्यगवगच्छन्तीति // 16 // 488 // किश्चान्यत् पुढो यछंदा इह माणवाउ, किरियाकिरीयं च पुढो य वायं। जायस्स बालस्स पकुव्व देहं, पवडती वेरमसंजतस्स ।।सूत्रम् 17 // // 489 // ) आउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे। अहो य राओ परितप्पमाणे, अट्टेसु मूढे अजरामरेव्व / / सूत्रम् 18 // मेव बुध्यते (मु०)। 0 मोक्षं तदभावं (च) आदि० (मु०)। // 346 //