________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 344 // वच इति भावः, तद्यथा-अश्नीत पिबत खादत मोदत हत छिन्त प्रहरत पचतेत्यादिकथां पापोपादानभूतां न कुर्यादिति // श्रुतस्कन्धः१ 10 // 482 // अपिच- साधूनाधाय कृतमाधाकृतमौद्देशिकमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारजातं निश्चयेनैव न कामयेत् / दशममध्ययनं नाभिलषेत् तथाविधाहारादिकं च निकामयतः निश्चयेनाभिलषतः पार्श्वस्थादींस्तत्सम्पर्कदानप्रतिग्रहसंवाससम्भाषणादिभिः / समाधिः, सूत्रम् 13-16 न संस्थापयेत्-नोपद्व्हयेत् तैर्वा साधू संस्तवं न कुर्यादिति, किञ्च-उरालं त्ति औदारिकं शरीरं विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो। धुनीयात् कृशं कुर्यात्, यदिवा उरालं ति बहुजन्मान्तरसञ्चितं कर्म तदुदारं- मोक्षमनुप्रेक्षमाणो धुनीयाद् अपनयेत्, तस्मिंश्च पापाकर्तातपसा धूयमाने कृशीभवति शरीरके कदाचित् शोकः स्यात् तं त्यक्त्वा याचितोपकरणवदनुप्रेक्षमाणः शरीरकं धुनीयादिति / सम्बन्धः // 11 // 483 // किञ्चापेक्षतेत्याह- एकत्वं-असहायत्वमभिप्रार्थयेद्- एकत्वाध्यवसायी स्यात्, तथाहि-जन्मजरामरणरोगशोकाकुले संसारे स्वकृतकर्मणा विलुप्यमानानामसुमतां न कश्चित्त्राणसमर्थः सहायः स्यात्, तथा चोक्तं- एगो मे / सासओ अप्पा, णाणदसणसंजुओ। सेसा मे बाहिरा भावा, सव्वे संयोगलक्खणा॥१॥ इत्यादिकामेकत्वभावनां भावयेद्, एवमनयैकत्वभावनया प्रकर्षण मोक्षः प्रमोक्षो विप्रमुक्तसङ्गता, न मृषा अलीकमेतद्भवतीत्येवं पश्य, एष एवैकत्वभावनाभिप्रायः प्रमोक्षो वर्तते, अमृषारूप:- सत्यश्चायमेव / तथा परोऽपि प्रधानोऽप्ययमेव भावसमाधिर्वा, यदिवा यः तपस्वी तपोनिष्टप्तदेहो-8 क्रोधनः, उपलक्षणार्थत्वादस्यामानो निर्मायो निर्लोभः सत्यरतश्च एष एव प्रमोक्ष: 'अमृषा' सत्यो 'वर' प्रधानश्च वर्तत इति // 12 // 484 // किश्चान्यत् इत्थीसुया आरय मेहुणाओ, परिग्गहं चेव अकुव्वमाणे। उच्चावएसुविसएसुताई, निस्संसयं भिक्खुसमाहिपत्ते / / सूत्रम् 13 // ( // 485 // ) 0एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः। शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः॥ 1 // 0 वरोऽपि (मु०)।