________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 335 // सुगमत्वादनादृत्य द्रव्यादिकमधिकृत्याह- पञ्चस्वपि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणां यथास्वं प्राप्तौ सत्यां। श्रुतस्कन्ध:१ यस्तुष्टिविशेषः स द्रव्यसमाधिः, तदन्यथा त्वसमाधिरिति, यदिवा द्रव्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न दशममध्ययन समाधिः, रसोपघातो भवति अपितु रसपुष्टिः स द्रव्यसमाधिः, तद्यथा-क्षीरशर्करयोर्दधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानकादिना समाधिर्भवति तद्व्यं द्रव्यसमाधिः, तुलादावारोपितं वा यत् द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधि- 103-106 समाधिरिति, क्षेत्रसमाधिस्तु यस्य यस्मिन् क्षेत्रे व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यात् क्षेत्रसमाधिः यस्मिन्वा क्षेत्रे समाधिा निक्षेपादिः वर्ण्यत इति, कालसमाधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा- शरदि गवां नक्तमुलूकानामहनि बलिभुजाम्, यस्य वा यावन्तं कालं समाधिर्भवति यस्मिन्वा काले समाधिर्व्याख्यायतेस कालप्राधान्यात् कालसमाधिरिति / भावसमाधि त्वधिकृत्याह- भावसमाधिस्तु दर्शनज्ञानतपश्चारित्रभेदाच्चतुर्दा, तत्र चतुर्विधमपि भावसमाधि समासतो गाथापश्चार्धेनाह- मुमुक्षुणा / चर्यत इति चरणंतत्र सम्यक्चरणे- चारित्रे व्यवस्थितः-समुद्युक्तः साधुः मुनिश्चतुर्ध्वपि भावसमाधिभेदेषु दर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो- व्यवस्थापित आत्मा येन स समाहितात्मा भवति, इदमुक्तं भवति- यः सम्यक्चरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, योवा भावसमाधिसमाहितात्मा भवति, ससम्यक्चरणे व्यवस्थितो द्रष्टव्य इति, तथाहिदर्शनसमाधौ व्यवस्थितो जिनवचनभावितान्तःकरणो निवातशरणप्रदीपवन कुमतिवायुभिर्धाम्यते, ज्ञानसमाधिना तु यथा / यथाऽपूर्वं श्रुतमधीते तथा तथाऽतीव भावसमाधावुधुक्तो भवति, तथा चोक्तं-जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं / तह तह पल्हाइ मुणी णवणवसंवेगसद्धाए॥१॥चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किञ्चनोऽपि परंसमाधिमाप्नोति, (r) यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्वम् / तथा 2 प्रह्लादते मुनिर्नवनवसंवेगश्रद्धया // 1 // // 335 //