________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 334 // // अथ दशममध्ययनं समाध्याख्यम्॥ श्रुतस्कन्धः 1 नवमानन्तरं दशममारभ्यते- अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः, स चाविकलः समाधौ सति दशममध्ययनं समाधिः, भवतीत्यतोऽधुना समाधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, नियुक्तिः तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयम् , तद्यथा- धर्मे समाधिः कर्तव्यः, सम्यगाधीयते- व्यवस्थाप्यते मोक्षं तन्मार्ग वा |103-106 समाधिप्रति येनात्मा धर्मध्यानादिनास समाधिः-धर्मध्यानादिकः, सच सम्यग्ज्ञात्वा स्पर्शनीयः, नामनिष्पन्नं तु निक्षेपमधिकृत्य निक्षेपादिः नियुक्तिकृदाह नि०- आयाणपदेणाऽऽघं गोणं णामं पुणो समाहित्ति / णिक्खिविऊण समाहिं भावसमाहीइ पगयं तु // 103 // नि०- णामंठवणादविए खेत्ते काले तहेव भावे य / एसो उसमाहीए णिक्खेवो छव्विहो होइ॥१०४॥ नि०- पञ्चसु विसएसुसुभेसु दव्वंमित्ता भवे समाहित्ति / खेत्तं तु जम्मि खेत्ते काले कालो जहिंजो ऊ // 105 // नि०-भावसमाहि चउव्विह दंसणणाणे तवे चरित्ते य / चउसुवि समाहियप्पा संमंचरणट्ठिओ साहू // 106 // आदीयते-गृह्यते प्रथममादौ यत्तदादानं आदानंच तत्पदंच-सुबन्तं तिङन्तं वा तदादानपदं तेन आघं ति नामास्याध्ययनस्य, यस्मादध्ययनादाविदं सूत्रं-'आघंमईमं मणुवीइ धम्म'मित्यादि, यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधायकमप्यादानपदेन 'असंखय' मित्युच्यते, गुणनिष्पन्नं पुनरस्याध्ययनस्य नाम समाधिरिति, यस्मात्स एवात्र प्रतिपाद्यते, तं च समाधिं नामादिना निक्षिप्य भावसमाधिनेह प्रकृतं अधिकार इति / समाधिनिक्षेपार्थमाह- नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् / एष तु समाधिनिक्षेपः षड्डिधो भवति, तुशब्दो गुणनिष्पन्नस्यैव नाम्नो निक्षेपो भवतीत्यस्यार्थस्याविर्भावनार्थ इति, नामस्थापने // 334 //