SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 333 // तथा आरम्भेषु सावद्यानुष्ठानरूपेषु अनिश्रितः असम्बद्धोऽप्रवृत्त इत्यर्थः, उपसंहर्तुकाम आह- सर्वमेतद् अध्ययनादेरारभ्य प्रतिषेध्यत्वेन यत् लपितं- उक्तं मया बहु तत् समयाद् आर्हतादागमादतीतमतिक्रान्तमितिकृत्वा प्रतिषिद्धम्, यदपि च विधिद्वारेणोक्तं तदेतत्सर्वं कुत्सितसमयातीतं लोकोत्तरं प्रधानं वर्तते, यदपिच तैः कुतीर्थिकैर्बहु लपितं तदेतत्सर्वं समयातीतमितिकृत्वा नानुष्ठेयमिति // 35 // 471 // प्रतिषेध्यप्रधाननिषेधद्वारेण मोक्षाभिसन्धानेनाह- अतिमानो महामानस्तम्, चशब्दात्तत्सहचरितं क्रोधं च, तथा मायां चशब्दात्तत्कार्यभूतं लोभं च, तदेतत्सर्वं पण्डितो विवेकी ज्ञपरिज्ञया परिज्ञाय / प्रत्याख्यानपरिज्ञया परिहरेत्, तथा सर्वाणि गारवाणि ऋद्धिरससातरूपाणि सम्यग्ज्ञात्वा संसारकारणत्वेन परिहरेत्, परिहृत्य च मुनिः साधुः निर्वाणं अशेषकर्मक्षयरूपं विशिष्टाकाशदेशंवा सन्धयेत् अभिसन्दध्यात् प्रार्थयेदितियावत् / इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् // 36 // ४७२॥समाप्तं धर्माख्यं नवममध्ययनमिति // श्रुतस्कन्धः 1 नवममध्ययन धर्मः, सूत्रम् 33-36 (469-472) आरम्भकामवतांन दुःखमोक्षः ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ नवममध्ययनं धर्माख्यं समाप्तमिति / /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy