________________ // 332 // श्रीसूत्रकृताङ्गहतान्न हितान्वेषिण इत्यर्थः, तथा धृतिः- संयमे रतिः सा विद्यते येषां ते धृतिमन्तः, संयमधृत्या हि पञ्चमहाव्रतभारोद्वहनं सुसाध्यं श्रुतस्कन्धः१ नियुक्ति- भवतीति, तपःसाध्या च सुगतिर्हस्तप्राप्तेति, तदुक्तं- जस्स धिई तस्स तवो जस्स तवो तस्स सुग्गई सुलहा। जे अधिइमंत पुरिसा नवममध्ययन श्रीशीला० धर्मः, वृत्तियुतम् तवोऽवि खलु दुल्लहो तेसिं॥१॥तथा जितानि- वशीकृतानि स्वविषयरागद्वेषविजयेनेन्द्रियाणि-स्पर्शनादीनि यैस्ते जितेन्द्रियाः, सूत्रम् 33-36 श्रुतस्कन्धः१ शुश्रूषमाणाः शिष्या गुरवो वाशुश्रूषमाणा यथोक्तविशेषणविशिष्टा भवन्तीत्यर्थः // 33 // 469 // यदभिसंधायिनः पूर्वोक्त- (469-472) आरम्भविशेषणविशिष्टा भवन्ति तदभिधित्सुराह- गृहे गृहवासे गृहपाशे वा गृहस्थभाव इतियावत् दीवं ति 'दीपी दीप्तौ' दीपयति कामवतांन प्रकाशयतीति दीपः स च भावदीपः श्रुतज्ञानलाभः यदिवा-द्वीपः समुद्रादौ प्राणिनामाश्वासभूतः स च भावद्वीपः संसारसमुद्रे दुःखमोक्षः सर्वज्ञोक्तचारित्रलाभस्तदेवम्भूतं दीपं द्वीपं वा गृहस्थभावे अपश्यन्तः अप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेनोत्थिता उत्तरोत्तरगुणलाभेनैवम्भूता भवन्तीति दर्शयति- नराः पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य नरोपादानम्, अन्यथा स्त्रीणामप्येतद्गुणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति, मुमुक्षूणां पुरुषाणामादानीया- आश्रयणीयाः पुरुषादानीया महतोऽपि महीयांसो भवन्ति, यदिवा-आदानीयो-हितैषिणां मोक्षस्तन्मार्गोवा सम्यग्दर्शनादिकः पुरुषाणां-मनुष्याणामादानीयः पुरुषादानीयः स विद्यते येषामिति विगृह्य मत्वर्थीयोऽर्शआदिभ्योऽजिति, तथा य एवंभूतास्ते विशेषेणेरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत्-प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो जीवितं असंयमजीवितं प्राणध-8 रणं वा नाभिकान्ति नाभिलषन्तीति // 34 // 470 // किञ्चान्यत्- अगृद्धः अनध्युपपन्नोऽमूर्छितः क्व?- शब्दस्पर्शेषु // 332 // मनोज्ञेषु आद्यन्तग्रहणान्मध्यग्रहणमतोमनोज्ञेषु रूपेषुगन्धेषु रसेषुवा अगृद्ध इति द्रष्टव्यम्, तथेतरेषु वाऽद्विष्ट इत्यपि वाच्यम्, यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिस्सुलभा। येऽधृतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं तेषाम् // 1 //