SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ धर्मः, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 326 // आरम्भ आसन्दीत्यासनविशेषः, अस्य चोपलक्षणार्थत्वात्सर्वोऽप्यासनविधिर्गृहीतः, तथा पर्यङ्कःशयनविशेषः, तथा गृहस्यान्तर्मध्ये श्रुतस्कन्धः१ गृहयोर्वा मध्ये निषद्यां वाऽऽसनं वा संयमविराधनाभयात्परिहरेत्, तथा चोक्तं- गंभीरझुसिरा एते, पाणा दुप्पडिलेहगा। अगुत्ती नवममध्ययनं बंभचेरस्स, इत्थीओ वावि संकणा॥१॥ इत्यादि, तथा तत्र गृहस्थगृहे कुशलादिप्रच्छनं आत्मीयशरीरावयवप्रच्छनं वा तथा सूत्रम् 21-24 पूर्वक्रीडितस्मरणं चेत्येतत्सर्वं विद्वान् विदितवेद्यः सन्ननायेति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् // 21 // (457-460) 457 // अपिच बहुसमरसट्टनिर्वहणशौर्यलक्षणं यशः दानसाध्या कीर्तिः जातितपोबाहुश्रुत्यादिजनिता श्लाघा, तथा याच कामवतांन सुरासुराधिपतिचक्रवर्तिबलदेववासुदेवादिभिर्वन्दना तथा तैरेव सत्कारपूर्विका वस्त्रादिना पूजना, तथा सर्वस्मिन्नपि लोके. दु:खमोक्षः इच्छामदनरूपा ये केचन कामस्तदेतत्सर्वं यशःकीर्त्यादिकमपकारितया परिज्ञाय परिहरेदिति // 22 // 458 // किञ्चान्यत्येन अन्नेन पानेन वा तथाविधेनेति सुपरिशुद्धेन कारणापेक्षया त्वशुद्धेन वा इह अस्मिन् लोके इदं वा संयमयात्रादिक दुर्भिक्षरोगातङ्कादिकं वा भिक्षुः निर्वहेत् निर्वाहयेद्वा तदन्नं पानं वा तथाविधंद्रव्यक्षेत्रकालभावापेक्षया शुद्धंकल्पंगृह्णीयात्तथैतेषां अन्नादीनामनुप्रदानमन्यस्मै साधवे संयमयात्रानिर्वहणसमर्थमनुतिष्ठेत्, यदिवा- येन केनचिदनुष्ठितेन इमं संयम 'निर्वहेत्' निर्वाहयेद् असारतामापादयेत्तथाविधमशनं पानं वाऽन्यद्वा तथाविधमनुष्ठानं न कुर्यात्, तथैतेषामशनादीनां अनुप्रदानं गृहस्थानां परतीर्थिकानां स्वयूथ्यानां वा संयमोपघातकं नानुशीलयेदिति, तदेतत्सर्वं ज्ञपरिज्ञया ज्ञात्वा सम्यक् परिहरेदिति॥ 23 // 459 // यदुपदेशेनैतत्सर्वं कुर्यात्तं दर्शयितुमाह- एवं अनन्तरोक्तया नीत्या उद्देशकादेरारभ्य उदाहुत्ति उदाहृतवानुक्तवान् गंभीरविजया इति द० अ० 6 गा० 56 अप्रकाशाश्रया इति वृत्तिः। एतानि गम्भीरच्छिद्राणि प्राणा दुष्प्रतिलेख्याः। अगुप्तिब्रह्मचर्यस्य स्त्रियो वापि शङ्कनम् // 1 // 0०वयवपुच्छनं (प्र०)। 0 यश:कीर्तिमप० (मु०)। 9 इदं संयमपात्रा० (मु०)। // 326 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy