SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 323 // श्रुतस्कन्ध:१ नवममध्ययन धर्म:, सूत्रम् 13-16 (449-452) आरम्भकामवतांन दुःखमोक्षः संपसारी कयकिरिए, पसिणायतणाणि य / सागारियं च पिंडंच, तं विजं परिजाणिया॥सूत्रम् 16 // ( // 452 // ) गन्धाः कोष्ठपुटादयः माल्यं जात्यादिकं स्नानं च शरीरप्रक्षालनं देशतः सर्वतश्च, तथा दन्तप्रक्षालनं कदम्बकाष्ठादिना तथा परिग्रहः सच्चित्तादेः स्वीकरणं तथा स्त्रियो- दिव्यमानुषतरश्च्यः तथा कर्म हस्तकर्म सावद्यानुष्ठानं वा तदेतत्सर्वं कर्मोपादानतया संसारकारणत्वेन परिज्ञाय विद्वान् परित्यजेदिति // 13 // 449 // किश्चान्यत्-साध्वाद्युद्देशेन यद्दानाय व्यवस्थाप्यते तदुद्देशिकम्, तथा क्रीतं क्रयस्तेन क्रीतं- गृहीतं क्रीतक्रीतं पामिच्चं ति साध्वर्थमन्यत उद्यतकं यगृह्यते तत्तदुच्यते चकारः समुच्चयार्थः एवकारोऽवधारणार्थः, साध्वर्थं यद्गृहस्थेनानीयते तदाहृतम्, तथा पूय मिति आधाकर्मावयवसम्पृक्तं शुद्धमप्याहारजातं पूति भवति, किं बहुनोक्तेन?, यत् केनचिद्दोषेणानेषणीयं- अशुद्धं तत्सर्वं विद्वान् परिज्ञाय संसारकारणतया निस्पृहः सन् प्रत्याचक्षीतेति // 14 // 450 // किञ्च-येन घृतपानादिना आहारविशेषेण रसायनक्रिययावा अशूनः सन् आ-समन्तात् शूनीभवतिबलवानुपजायते तदाशूनीत्युच्यते, यदिवा आसूणित्ति- श्लाघा यतः श्लाघया क्रियमाणया आ-समन्तात् शूनवच्छूनोलघुप्रकृतिः। कश्चिद्दध्मातत्वात् स्तब्धो भवति, तथा अक्ष्णां रागो रञ्जनं सौवीरादिकमजनमितियावत्, एवं रसेषु शब्दादिषु विषयेषु वा गृद्धिं गाय तात्पर्यमासेवा, तथोपघातकर्म-परापकारक्रिया येन केनचित्कर्मणा परेषां जन्तूनामुपघातो भवति तदुपघातकर्मेत्युच्यते, तदेव लेशतो दर्शयति- उच्छोलनं ति अयतनया शीतोदकादिना हस्तपादादिप्रक्षालनं तथा कल्कं लोध्रादिद्रव्यसमुदायेन शरीरोद्वर्तनकं तदेतत्सर्वं कर्मबन्धनायेत्येवं विद्वान् पण्डितोज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति // 15 // 451 // अपिच-असंयतैः सार्धं सम्प्रसारणं-पर्यालोचनं परिहरेदिति वाक्यशेषः, एवमसंयमानुष्ठानं प्रत्युपदेशदानम्, ॐ अपरापकार० (मु०)। // 323 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy