________________ श्रुतस्कन्धः१ धर्मः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 318 // हस्तितापसाश्च मांसहेतोर्मुगान् हस्तिनश्च एषन्ति, तथा कन्दमूलफलादिकं च, तथा ये चान्ये पाखण्डिका नानाविधैरुपायैर्भेक्ष्यमेषन्त्यन्यानि वा विषयसाधनानि ते सर्वेऽप्येषिका इत्युच्यन्ते, तथा वैशिका वणिजो मायाप्रधानाः कलोपजीविनः, नवममध्ययन तथा शूद्राः कृषीवलादयः आभीरजातीयाः, कियन्तो वा वक्ष्यन्त इति दर्शयति- ये चान्ये वापसदा नानारूपसावद्य साच सूत्रम् 1-4 आरम्भ(म्भे)निश्रिता यन्त्रपीडननिर्लाञ्छनकर्माङ्गारदाहादिभिः क्रियाविशेषैर्जीवोपमईकारिणस्तेषां सर्वेषामेव जीवापकारिणां (437-440) वैरमेव प्रवर्धत इत्युत्तरश्लोके क्रियेति // 2 // 438 // किञ्च-परि-समन्तात् गृह्यत इति परिग्रहो- द्विपदचतुष्पदधनधान्यहिरण्य आरम्भ कामवतांन सुवर्णादिषु ममीकारस्तत्र निविष्टानां अध्युपपन्नानांगायं गतानां पापं असातवेदनीयादिकं तेषां प्रागुक्तानामारम्भनिश्रितानां दुःखमोक्षः परिग्रहे निविष्टानां प्रकर्षेण वर्द्धते वृद्धिमुपयाति जन्मान्तरशतेष्वपि दुर्मोचं भवति, क्वचित्पाठः वेरं तेसिं पवड्डइ त्ति तत्र येन यस्य यथा प्राणिन उपमर्दः क्रियतेस तथैव संसारान्तर्वर्ती शतशो दुःखभाक् भवतीति, जमदग्निकृतवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवर्द्धत इति भावः, किमित्येवं?, यतस्ते कामेषु प्रवृत्ताः, कामाश्चारम्भैः सम्यग् भृताः संभृता- आरम्भपुष्टा आरम्भाश्च जीवोपमर्दकारिणः अतोन ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखं- अष्टप्रकारं कर्म तद्विमोचका भवन्ति- तस्यापनेतारोन भवन्तीत्यर्थः // 3 // 439 // किञ्चान्यत्- आहन्यन्ते-अपनीयन्ते विनाश्यन्ते प्राणिनां दश प्रकारा अपि प्राणा यस्मिन् स आघातो- मरणं तस्मै तत्र वा कृत्य- अग्निसंस्कारजलाञ्जलिप्रदानपितृपिण्डादिकमाघातकृत्यं / तदाधातु-आधाय कृत्वा पश्चात् ज्ञातयःस्वजनाः पुत्रकलत्रभ्रातृव्यादयः, किम्भूताः?-विषयानन्वेष्टुंशीलं येषां तेऽन्ये विषयैषिणः सन्तस्तस्य दुःखार्जितं वित्तं द्रव्यजातं अपहरन्ति स्वीकुर्वन्ति, तथा चोक्तं-ततस्तेनार्जितैर्द्रव्यैदरिश्च परिरक्षितैः। क्रीडन्त्यन्ये नरा ®वा कृतं (मु०)। 0ऽन्येऽपि (मु०)। // 318 //