________________ श्रीसूत्रकृताङ्गं तीर्थं द्रव्यभावभेदाविधा, तत्रापि द्रव्यतीर्थं नद्यादेः समुत्तरणमार्गः, भावतीर्थं तुसम्यग्दर्शनज्ञानचारित्राणि, संसारार्णवादुत्तर श्रुतस्कन्ध:१ नियुक्ति कत्वात्, तदाधारो वा सङ्गःप्रथमगणधरोवा, तत्करणशीलास्तीर्थरास्तान्नत्वेति क्रिया। तत्रान्येषामपि तीर्थकरत्वसंभवे प्रथममध्ययनं श्रीशीला समयः, वृत्तियुतम् तद्व्यवच्छेदार्थमाह- जिनवरानि ति रागद्वेषमोहजितो जिनाः, एवंभूताश्च सामान्यकेवलिनोऽपि भवन्ति, तद्व्यवच्छेदार्थमाह प्रथमोद्देशक: श्रुतस्कन्धः१ वरा:- प्रधानाश्चतुस्त्रिंशदतिशयसमन्वितत्वेन, तान्नत्वेति, एतेषां च नमस्कारकरणमागमार्थोपदेष्टुत्वेनोपकारित्वात्, नियुक्ति:१ विशिष्टविशेषणोपादानं च शास्त्रस्य गौरवाधानार्थम्, शास्तुः प्राधान्येन हि शास्त्रस्यापि प्राधान्यं भवतीति भावः / अर्थस्य। मङ्गलादिः सूचनात्सूत्रम्, तत्करणशीला: सूत्रकराः, तेच स्वयंबुद्धादयोऽपि भवन्तीत्यत आह- गणधरास्तांश्च नत्वेति, सामान्याचार्याणां गणधरत्वेऽपि तीर्थकरनमस्कारानन्तरोपादानागौतमादय एवेह विवक्षिताः। प्रथमश्चकारः सिद्धाधुपलक्षणार्थो द्वितीयः समुच्चितौ / क्त्वाप्रत्ययस्य क्रियाऽन्तरसव्यपेक्षत्वात्तामाह-स्वपरसमयसूचनं कृतमनेनेति सूत्रकृतस्तस्य, महार्थवत्त्वाद्भगवांस्तस्य, अनेन च सर्वज्ञप्रणीतत्वमावेदितं भवति / नियुक्तिं कीर्तयिष्यामि इति योजनं युक्ति:- अर्थघटना, निश्चयेनाधिक्येन वा. युक्तिनियुक्ति:- सम्यगर्थप्रकटनमितियावत्, निर्युक्तानां वा-सूत्रेष्वेव परस्परसम्बद्धानामर्थानामाविर्भावनम्, युक्तशब्दलोपान्नियुक्तिरिति, तां 'कीर्तयिष्यामि'अभिधास्य इति // इह सूत्रकृतस्य नियुक्ति कीर्तयिष्ये इत्यनेनोपक्रमद्वारमुपक्षिप्तम्, तच्चेह 'उद्देसे निद्देसे' (आवश्यकनिर्युक्तौ) इत्यादिनेषदभिहितमिति, तदनन्तरं निक्षेपः, स च त्रिविधः, तद्यथा-ओघनिष्पन्नो णिजन्तात्कर्तात्मनेपदभावान्न परस्मैपदित्वादसाधुः प्रयोगोऽयमिति शङ्यम् / स्वपरसमयसूचनार्थत्वात्सूत्रकृतशब्दस्य नाभिधेयत्वेऽस्य क्षतिः, स्वकृत्यपेक्षया * नियुक्ति कीर्तयिष्य इति प्रयोजनोक्तिः।® समः समुत्तरणमार्गः प्र०® जिनेत्यनुक्त्वा जिनवरानिति वरत्वयुक्तजिनेत्युपादानम् / (r) कीर्तियिष्ये(मु०)। तच्च इहापसदे *त्यादिने० (मु०)।