________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 2 // मङ्गलादिः स्तथाऽर्थी, तस्योपकाराय ममैष यत्नः॥ 3 // इहापसदसंसारान्तर्गतेनासुमताऽवाप्यातिदुर्लभमनुजत्वसुकुलोत्पत्तिसमग्रेन्द्रिय- श्रुतस्कन्धः१ सामग्याधुपेतेनार्हद्दर्शनं अशेषकर्मोच्छित्तये यतितव्यम्, कर्मोच्छेदश्च सम्यग्विवेकसव्यपेक्षः, असावप्याप्तोपदेशमन्तरेण न प्रथममध्ययन समयः, भवति, आप्तश्चात्यन्तिकाद्दोषक्षयात्, न चाहन्नेव, अतस्तत्प्रणीतागमपरिज्ञाने यत्नो विधेयः,आगमश्च द्वादशाङ्गादिरूपः,8 प्रथमोद्देशकः सोऽप्यार्यरक्षितमित्रैरैदंयुगीनपुरुषानुग्रहबुद्ध्या चरणकरणद्रव्यधर्मकथागणितानुयोगभेदाच्चतुर्धा व्यवस्थापितः, तत्राचाराङ्गं नियुक्ति:१ चरणकरणप्राधान्येन व्याख्यातम्, अधुनाऽवसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमङ्गं व्याख्यातुमारभ्यत इति / ननु चार्थस्य शासनाच्छास्त्रमिदम्, शास्त्रस्य चाशेषप्रत्यूहोपशान्त्यर्थमादिमङ्गलं तथा स्थिरपरिचयार्थ मध्यमङ्गलं शिष्यप्रशिष्याविच्छेदार्थं चान्त्यमङ्गलमुपादेयं तच्चेह नोपलभ्यते, सत्यमेतत्, मङ्गलं हीष्टदेवतानमस्कारादिरूपम्, अस्य च प्रणेता सर्वज्ञः, तस्य चापरनमस्कार्याभावान्मङ्गलकरणे प्रयोजनाभावाच्च न मङ्गलाभिधानम्, गणधराणामपि तीर्थकृदुक्तानुवादित्वान्मङ्गलाकरणम्, अस्मदाद्यपेक्षया तु सर्वमेव शास्त्रं मङ्गलम् / अथवा नियुक्तिकार एवात्र भावमङ्गलमभिधातुकाम आह नि०-तित्थयरे य जिणवरे सुत्तकरे गणहरे यणमिऊणं / सूयगडस्स भगवओ णिज्जुत्तिं कित्तइस्सामि॥१॥ गाथापूर्वार्द्धनेह भावमङ्गलमभिहितम्, पश्चार्द्धन तु प्रेक्षापूर्वकारिप्रवृत्त्यर्थं प्रयोजनादित्रयमिति,तदुक्तं- उक्तार्थं ज्ञातसंबन्धं, श्रोतुं श्रोता प्रवर्तते / शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः॥१॥ तत्र सूत्रकृतस्येत्यभिधेयपदम्, नियुक्तिं कीर्तयिष्ये इति प्रयोजनपदम्, प्रयोजनप्रयोजनं तु मोक्षावाप्तिः, सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक्नोक्तः, तदुक्तं-शास्त्र प्रयोजनं चेति, // 2 // सम्बन्धस्याश्रयावुभौ / तदुक्त्यन्तर्गतस्तस्माद्भिन्नो नोक्त: प्रयोजनात् // 1 // इति समुदायार्थः / / अधुनाऽवयवार्थः कथ्यते- तत्र (c) तौ जौ गाविन्द्रवज्रा (छन्दो०२-१५४) / 0 इहापारसंसारेति (प्र०) दुर्लभं मनुजत्वं सुकु० (मु०)। 0 श्रोतारः / ॐ उक्तप्रयोजनं। 7 चान्द्रमतेन