________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 1 // श्रुतस्कन्ध:१ प्रथममध्ययन समय:, प्रथमोद्देशकः मङ्गलादिः // अहम् // // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-२-ग्रन्थाङ्कः-२/१॥ // प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः / / श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविहितविवरणसमन्वितं श्रीसूत्रकृताङ्गसूत्रम्। प्रथमः श्रुतस्कन्धः स्वपरसमयार्थसूचकमनन्तगमपर्ययार्थगुणकलितम् / सूत्रकृतमङ्गमतुलं विवृणोमि जिनान्नमस्कृत्य // 1 // व्याख्यातमङ्गमिह यद्यपि सूरिमुख्यैर्भक्त्या तथापि विवरीतुमहं यतिष्ये / किं पक्षिराजगतमित्यवगम्य सम्यक्, तेनैव / वाञ्छति पथा शलभो न गन्तुम्? ॥२॥ये मय्यवज्ञाव्यधुरिद्धबोधा, जानन्ति ते किञ्चन तानपास्य / मत्तोऽपि यो मन्दमति-2 ®सदृशपाठाः। ॐ शब्दपर्यायाः। 0 अभिधेयगुणाः / ॐ पर्ययार्थनयगहनम् (प्र०)। 0 पक्षिराजगतमप्यवगम्येति प्र० 1 0 भौ जौ गौ वसन्ततिलका (छन्दोऽनुशासने अ०२ सूत्रम् 231) / 0. 0 0 // 1 //