________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 316 // श्रुतस्कन्धः१ नवममध्ययनं धर्म:, नियुक्तिः 101-102 धर्मनिक्षेपादिः सचित्ताचित्तमिश्रभेदात् त्रिधा, तत्रापि सचित्तस्य जीवच्छरीरस्योपयोगलक्षणो धर्मः' स्वभावः, एवमचित्तानामपि धर्मास्तिकायादीनां यो यस्य स्वभावः स तस्य धर्म इति, तथाहि- गइलक्खणओ धम्मो, अहम्मो ठाणलक्खणो। भायणं सव्वदव्वाणं, नहं अवगाहलक्खणं॥१॥ पुद्गलास्तिकायोऽपि ग्रहणलक्षण इति, मिश्रद्रव्याणं च क्षीरोदकादीनां यो यस्य स्वभावः स तद्धर्मतयाऽवगन्तव्य इति, गृहस्थानांच यः कुलनगरग्रामादिधर्मो गृहस्थेभ्यो गृहस्थानांवा यो दानधर्मःस दानधर्मोऽवगन्तव्य इति, तथा चोक्तं-अन्नं पानं च वस्त्रं च, आलयः शयनासनम् / शुश्रूषां वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम्॥१॥॥१००॥ भावधर्मस्वरूपनिरूपणायाह नि०- लोइयलोउत्तरिओदुविहो पुण होति भावधम्मो उ। दुविहोवि दुविहतिविहो पंचविहो होति णायव्वो॥१०१॥ भावधर्मो नोआगमतो द्विविधः, तद्यथा- लौकिको लोकोत्तरश्च, तत्र लौकिको द्विविधः- गृहस्थानां पाखण्डिकानां च, लोकोत्तरस्त्रिविधः- ज्ञानदर्शनचारित्रभेदात्, तत्राप्याभिनिबोधादिकं ज्ञानं पञ्चधा, दर्शनमप्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदात् पञ्चविधम्, चारित्रमपि सामायिकादिभेदात् पञ्चधैव / गाथाऽक्षराणि त्वेवं नेयानि, तद्यथाभावधर्मो लौकिकलोकोत्तरभेदाविधा, द्विविधोऽपिचायं यथासङ्खयेन द्विविधस्त्रिविधः, तत्र लौकिको गृहस्थपाखण्डिकभेदात् द्विविधः, लोकोत्तरोऽपि ज्ञानदर्शनचारित्रभेदात् त्रिविधः, ज्ञानादीनि प्रत्येकं त्रीण्यपि पञ्चधैवेति // 101 // तत्र ज्ञानदर्शनचारित्रवतां साधूनां यो धर्मस्तं दर्शयितुमाह नि०- पासत्थोसण्णकुसील संथवोण किर वट्टती काउं। सूयगडे अज्झयणे धम्ममि निकाइतं एयं // 10 // साधुगुणानां पार्श्वे तिष्ठन्तीति पार्श्वस्थाः तथा संयमानुष्ठानेऽवसीदन्तीत्यवसन्नाः तथा कुत्सितं शीलं येषां ते कुशीलाः एतैः // 316 //