________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 315 // ॥अथ नवममध्ययनं धर्माख्यम् // श्रुतस्कन्धः१ अष्टमानन्तरं नवमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने बालपण्डितभेदेन द्विरूपं वीर्यं प्रतिपादितम्, नवममध्ययन धर्म:, अत्रापि तदेव पण्डितवीर्यं धर्मं प्रति यदुधमं विधत्ते अतो धर्मः प्रतिपाद्यत इत्यनेन सम्बन्धेन धर्माध्ययनमायातम्, अस्य नियुक्तिः चत्वार्यनुयोगद्वाराणि उपक्रमादीनि प्राग्वत् व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-धर्मोऽत्र प्रतिपाद्यत / 99-100 धर्मनिक्षेपादिः इति तमधिकृत्य नियुक्तिकृदाह नि०-धम्मो पुव्वुद्दिट्ठो भावधम्मेण एत्थ अहिगारो / एसेव होइ धम्मे एसेव समाहिमग्गोत्ति // 99 // दुर्गतिगमनधरणलक्षणो धर्मः प्राक् दशवैकालिकश्रुतस्कन्धषष्ठाध्ययने धर्मार्थकामाख्ये उद्दिष्टः- प्रतिपादितः, इह तु भावधर्मेणाधिकारः, एष एव च भावधर्मः परमार्थतो धर्मो भवति, अमुमेवार्थमुत्तरयोरप्यध्ययनयोरतिदिशन्नाह- एष एव च भावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति, यदिवैष एव च भावधर्मः एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां परमार्थतः कश्चिद्भेदः, तथाहि-धर्मः श्रुतचारित्राख्यः क्षान्त्यादिलक्षणो वा दशप्रकारो भवेत्, भावसमाधिरप्येवंभूत एव, तथाहि-सम्यगाधानं-आरोपणं गुणानां क्षान्त्यादीनामिति समाधिः, तदेवं मुक्तिमार्गोऽपिज्ञानदर्शनचारित्राख्यो भावधर्मतया व्याख्यानयितव्य इति ॥९९॥साम्प्रतमतिदिष्टस्यापि स्थानाशून्यार्थं धर्मस्य नामादिनिक्षेपं दर्शयितुमाहनि०-णामंठवणाधम्मो दव्वधम्मोय भावधम्मोय / सच्चित्ताचित्तमीसगगिहत्थदाणे दवियधम्मे // 10 // // 315 // नामस्थापनाद्रव्यभावभेदाच्चतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यधर्मः एष एव भाव० (प्र०)। (c) एव भाव० (प्र०)। (c) एव भाव (प्र०)।