________________ वीर्यम्, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 311 / / सूत्रम् 23 (433) 'नानुजानन्ति' न बहु मन्यन्ते, तथा यदि परः कश्चिदशुद्धेनाहारेणोपनिमन्त्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति श्रुतस्कन्ध:१ दर्शयति-आत्माऽकुशलमनोवाक्कायनिरोधेन गुप्तो येषां ते तथा, जितानि- वशीकृतानि इन्द्रियाणि- श्रोत्रादीनि यैस्ते तथा, अष्टममध्ययन एवम्भूताः पापकर्म नानुजानन्तीति स्थितम् // 21 // 431 // अन्यच्च- येकेचन अबुद्धा धर्मं प्रत्यविज्ञातपरमार्था व्याकरणशुष्क- सूत्रम् 21-22 तर्कादिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतत्त्वानवबोधादबुद्धा इत्युक्तम्, न च व्याकरणादिपरिज्ञान- (431-432) शुद्धानुष्ठानम् मात्रेण सम्यक्त्वव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तं- शास्त्रावगाहपरिघट्टनतत्परोऽपि, नैवाबुधः समभिगच्छति तुतत्त्वम् / नानाप्रकाररसभावगताऽपि दर्वी, स्वादं रसस्य सुचिरादपि नैव वेत्ति // 1 // यदिवाऽबुद्धा इव बालवीर्यवन्तः, तथा महान्तश्च ते नागाश्च महानागाः, नागशब्दः पूजावचनः, ततश्चमहापूज्या इत्यर्थः, लोकविश्रुता वेति, तथा वीराः परानीकभेदिनः | शुद्धानुष्ठानम् सुभटा इति, इदमुक्तं भवति-पण्डिता अपि त्यागादिभिर्गुणैर्लोकपूज्या अपि तथा सुभटवादं वहन्तोऽपि सम्यक्त्वपरिज्ञानविकलाः केचन भवन्तीति दर्शयति-न सम्यगसम्यक् तद्भावोऽसम्यक्त्वं तद्दष्टुं शीलं येषां ते तथा, मिथ्यादृष्टय इत्यर्थः, तेषांक चबालानां यत्किमपि तपोदानाध्ययनयमनियमादिषु पराक्रान्तमुद्यमकृतं तदशुद्धं अविशुद्धिकारि प्रत्युत कर्मबन्धाय,भावोपहतत्वात् सनिदानत्वाद्वेति कुवैद्यचिकित्सावद्विपरीतानुबन्धीति, तच्च तेषां पराक्रान्तंसह फलेन-कर्मबन्धेन वर्तत इति सफलं सर्वश इति सर्वाऽपि तत्क्रिया तपोऽनुष्ठानादिका कर्मबन्धायैवेति // 22 // 432 // साम्प्रतं पण्डितवीर्यिणोऽधिकृत्याहजेय बुद्धा महानागा, वीरा सम्मत्तदंसिणो।सुद्धं तेसिं परक्वंतं, अफलं होइ सव्वसो॥सूत्रम् 23 // ( // 433 // ) 3 // 311 // येत् तथापि (प्र०)। 0 तथा, तथा जितानि वशीकृतानि इन्द्रियाणि येषां ते तथा, त एवम्भूताः (प्र०)। 0 पापकं कर्म। 0 रणपरि० (मु०)।७ महान्तलश्चेति नागाश्च (प्र०)। महान्तश्च ते नागाश्च (मु०)10 मुद्यमः कृतस्त०।००बन्धायैवेति (मु०)।