________________ श्रुतस्कन्धः१ अष्टममध्ययन वीर्यम्, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 307 // सूत्रम् 15-16 (425-426) मायादिना:संयमः (त) यदिवा-सर्वैर्धम:- स्वभावैरनुष्ठानरूपैरगोपितं-कुत्सितकर्त्तव्याभावात् प्रकटमित्यर्थः // 13 // 423 // सुधर्मपरिज्ञानं च यथा भवति तद्दर्शयितुमाह- धर्मस्य सारः- परमार्थो धर्मसारस्तं ज्ञात्वा अवबुद्ध्य, कथमिति दर्शयति- सह सन्- मत्या स्वमत्या वा-विशिष्टाभिनिबोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकत्वात् ज्ञानस्य, तेन सह, धर्मस्य सारं ज्ञात्वेत्यर्थः, अन्येभ्यो वा-तीर्थकरगणधराचार्यादिभ्यः इलापुत्रवत् श्रुत्वा चिलातपुत्रवद्वा धर्मसारमुपगच्छति, धर्मस्य वा सारं- चारित्रं तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगुणसम्पत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्रत्याख्यातं-निराकृतं पापक-सावधानुष्ठानरूपं येनासौ प्रत्याख्यातपापको भवतीति // 14 // 424 // किश्चान्यत् जंकिंचुवक्कमंजाणे, आउखेमस्स अप्पणो / तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिए।सूत्रम् 15 // ( / / 425 // ) जहा कुम्मे सअंगाई,सए देहे समाहरे / एवं पावाई मेधावी, अज्झप्पेण समाहरे ॥सूत्रम् 16 // // 426 // ) उपक्रम्यते-संवर्त्यते क्षयमुपनीयते आयुर्येन स उपक्रमस्तं यं कश्चन जानीयात्, कस्य?- आयुःक्षेमस्य स्वायुष इति, इदमुक्तं भवति-स्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यस्मिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले क्षिप्रमेवानाकुलोजीवितानाशंसी पण्डितो विवेकी संलेखनारूपां शिक्षांभक्तपरिज्ञेङ्गितमरणादिकांवा शिक्षेत्, तत्र ग्रहणशिक्षया यथावन्मरणविधिं विज्ञायाऽऽसेवनाशिक्षया त्वासेवेतेति // 15 // 425 / किञ्चान्यत्-'यथे' त्युदाहरणप्रदर्शनार्थः यथा कूर्मः कच्छपः स्वान्यङ्गानि-शिरोधरादीनि स्वके देहे समाहरेद् गोपयेद्- अव्यापाराणि कुर्याद् एवं अनयैव प्रक्रियया मेधावी O गतो यस्तम् (प्र०)। (r) रगोपितः कुत्सितकर्तव्याभावात् प्रकट इत्यर्थः (प्र०)। (c) सद्धर्म० (प्र०)10 स्वमत्यपेक्षया। // 307 //