________________ अष्टममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 303 // संयमः ग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्त: कामान् इच्छारूपान् तथा भोगांश्च शब्दादिविषयरूपान् समारभन्ते सेवन्ते पाठान्तरं / श्रुतस्कन्धः१ वा आरंभाय तिवट्टई त्रिभिः मनोवाकायैरारम्भार्थं वर्त्तते, बहून् जीवान् व्यापादयन् बध्नन् अपध्वंसयन् आज्ञापयन् भोगार्थी वीर्यम्, वित्तोपार्जनार्थं प्रवर्तत इत्यर्थः, तदेवं आत्मसातानुगामिनः स्वसुखलिप्सवो दुःखद्विषो विषयेषु गृद्धाः कषायकलुषितान्तरा- सूत्रम् 7-8 त्मानः सन्त एवम्भूता भवन्ति, तद्यथा- हन्तारः प्राणिव्यापादयितारस्तथा छेत्तारः कर्णनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरा- (417-418) मायादिनाऽदेरिति // 5 // 415 // तदेतत्कथमित्याह- तदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिश्च अन्तशः कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनसैव पापानुष्ठानानुमत्या कर्म बध्नातीति, तथा आरतः परतश्चेति लौकिकी वाचोयुक्तिरित्येवं पर्यालोच्यमाना ऐहिकामुष्मिकयोः द्विधापि स्वयंकरणेन परकरणेन चासंयता- जीवोपघातकारिण इत्यर्थः // 6 // 416 // साम्प्रतं जीवोपघातविपाकदर्शनार्थमाह वेराइंकुव्वई वेरी, तओ वेरेहिं रज्जती / पावोवगा य आरंभा, दुक्खफासा य अंतसो॥सूत्रम् 7 // 417 // संपरायं णियच्छंति, अत्तदुक्कडकारिणो। रागदोसस्सिया बाला, पावं कुव्वंति ते बहुं ।सूत्रम् 8 // 418 // वैरमस्यास्तीति वैरी, स जीवोपमईकारी जन्मशतानुबन्धीनि वैराणि करोति, ततोऽपि च वैरादपरैर्वैरैरनुरज्यते- सम्बध्यते, वैरपरम्परानुषङ्गी भवतीत्यर्थः, किमिति?, यतः पापं उप-सामीप्येन गच्छन्तीति पापोपगाः, क एते?- आरम्भाः सावद्यानुष्ठानरूपाः अन्तशो विपाककाले दुःखं स्पृशन्तीति दुःखस्पर्शा- असातोदयविपाकिनो भवन्तीति // 7 // 417 // किञ्चान्यत्सम्परायं णियच्छंती त्यादि, द्विविधं कर्म-ईर्यापथं साम्परायिकं च, तत्र सम्पराया-बादरकषायास्तेभ्य आगतं साम्परायिकं ॐ तिउट्टइ (प्र०)। // 303 //