________________ वीर्यम्, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 302 // प्रत्यालीढादि जीवे व्यापादयितव्ये स्थान विधेयम्, तदुक्तं- मुष्टिनाऽऽच्छादयेल्लक्ष्य, मुष्टौ दृष्टिं निवेशयेत् / हतं लक्ष्यं विजानीयाद्यदि श्रुतस्कन्धः१ मूर्धा न कम्पते ॥१॥तथा एवं लावकरसः क्षयिणे देयोऽभयारिष्टाख्यो मद्यविशेषश्चेति, तथा एवं चौरादेः शूलारोपणादिको अष्टममध्ययन दण्डो विधेयः तथा चाणक्याभिप्रायेण परो वञ्चयितव्योऽर्थोपादानार्थं तथा कामशास्त्रादिकं चोद्यमेनाशुभाध्यवसायिनोऽ नियुक्ति: 98 धीयते, तदेवं शस्त्रस्य धनुर्वेदादेःशास्त्रस्य वायदभ्यसनंतत्सर्वं बालवीर्यम्, किञ्च एके केचन पापोदयात् मन्त्रानभिचारकाना सूत्रम् 5-6 (415-416) (ते) थर्वणानश्वमेधपुरुषमेधसर्वमेधादियागार्थमधीयते, किम्भूतानिति दर्शयति-प्राणा द्वीन्द्रियादयः भूतानि पृथिव्यादीनि मायादिनाsतेषां विविधं अनेकप्रकारं हेठनान् बाधनान् ऋक्संस्थानीयान् मन्त्रान् पठन्तीति, तथा चोक्तं- षट् शतानि नियुज्यन्ते, पशूनां संयमः मध्यमेऽहनि। अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः॥१॥इत्यादि // 4 // 414 ॥अधुना सत्थ' मित्येतत्सूत्रपदं सूत्रस्पर्शिकया / नियुक्तिकारः स्पष्टयितुमाह नि०- सत्थं असिमादीयं विज्जामंते य देवकम्मकयं / पत्थिववारुणअग्गेय वाऊतह मीसगंचेव // 18 // शस्त्रं- प्रहरणं तच्च असिः- खड्गस्तदादिकम्, तथा विद्याधिष्ठितम्, मन्त्राधिष्ठितं देवकर्मकृतं- दिव्यक्रियानिष्पादितम्, तच्च पञ्चविधम्, तद्यथा- पार्थिवं वारुणमाग्नेयं वायव्यं तथैव द्व्यादिमिश्रं चेति // 98 // किञ्चान्यत् माइणो कट्टमाया य, कामभोगे समारभे। हंता छेत्ता पगब्भित्ता, आयसायाणुगामिणो॥सूत्रम् 5 // ( // 415 // ) मणसा वयसा चेव, कायसा चेव अंतसो। आरओ परओ वावि, दुहावि य असंजया // सूत्रम् 6 // // 416 // ) 'माया' परवञ्चनात्मिका बुद्धिः सा विद्यते येषां ते मायाविनस्त एवम्भूता मायाः- परवञ्चनानि कृत्वा एकग्रहणे तज्जातीय® प्रत्यालीढादिभिर्जीवे (मु०)। 0 हेठकान् (मु०)। // 30