SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 300 // पुद्गलपरावर्तात् विरतिसद्भावात् सान्ततेति, साद्यपर्यवसितस्य तृतीयभङ्गस्य त्वसम्भव एव, यदिवा पण्डितवीर्यं सर्वविरति- श्रुतस्कन्धः१ लक्षणम्, विरतिरपि चारित्रमोहनीयक्षयक्षयोपशमोपशमलक्षणात्रिविधैव, अतो वीर्यमपि त्रिधैव भवति / / 97 // गतो अष्टममध्ययन वीर्यम्, नामनिष्पन्नो निक्षेपः, तदनु सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं सूत्रम् 1-2 _दुहा चेयं सुयक्खायं, वीरियंति पवुच्चई। किं नु वीरस्स वीरत्तं, कहं चेयं पवुच्चई ? / / सूत्रम् 1 // ( / 411 // ) (411-412) वीरत्वम् कम्ममेगे पवेदेति, अकम्मं वावि सुव्वया। एतेहिं दोहि ठाणेहि, जेहिंदीसंति मच्चिया॥ सूत्रम् 2 // ( // 412 / / ) द्वे विधे- प्रकारावस्येति द्विविधं- द्विप्रकारम्, प्रत्यक्षासन्नवाचित्वात् इदमो यदनन्तरं प्रकर्षेणोच्यते प्रोच्यते वीर्यं तट्विभेदं सुष्वाख्यातं स्वाख्यातं तीर्थकरादिभिः, चो वाक्यालङ्कार, तत्र 'ईर गतिप्रेरणयोः' विशेषेण ईरयति-प्रेरयति अहितं येन तद्वीर्यं जीवस्य शक्तिविशेष इत्यर्थः, तत्र, किं नु वीरस्य सुभटस्य वीरत्वं?, केन वा कारणेनासौ वीर इत्यभिधीयते, नुशब्दो वितर्कवाची, एतद्वितर्कयति-किंतद्वीय?, वीरस्य वा किंतद्वीरत्वमिति॥१॥४११॥ तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह-कर्मक्रियानुष्ठानमित्येतदेकेवीर्यमिति प्रवेदयन्ति, यदिवा- कर्माष्टप्रकारं कारणे कार्योपचारात् तदेव वीर्यमिति प्रवेदयन्ति, तथाहि-औदयिकभावनिष्पन्नं कर्मेत्युपदिश्यते, औदयिकोऽपिच भावः कर्मोदयनिष्पन्न एव बालवीर्यम् , द्वितीयभेदस्त्वयंन विद्यते कर्मास्येत्यकर्मा- वीर्यान्तरायक्षयजनितं जीवस्य सहजं वीर्यमित्यर्थः, चशब्दात् चारित्रमोहनीयोपशमक्षयोपशम-2 जनितं च, हे सुव्रता! एवम्भूतं पण्डितवीर्य जानीत यूयम् / आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाकर्मकापादितबालपण्डित - वीर्याभ्यां व्यवस्थितं वीर्यमित्युच्यते, यकाभ्यां च ययोर्वा व्यवस्थिता मर्येषु भवा माः दिस्संत ति दृश्यन्तेऽपदिश्यन्ते वा, (r) दुहा चेयं (प्र०)। 0 वा वाक्या० (मु०)। 0 वीर्यत्रयेऽस्यैवोदयनिष्पन्नत्वात्, शेषं त्वन्यथेत्युत्तरभेदे। 9 दिस्संति ति (प्र०)। // 300 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy