SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 299 // मनसो वा एकत्वीभावकरणम्, मनोवीर्येण हि निर्ग्रन्थसंयताः प्रवृद्धपरिणामा अवस्थितपरिणामाश्च भवन्तीति, वाग्वीर्येण | श्रुतस्कन्धः१ तु भाषमाणोऽपुनरुक्तं निरवद्यं च भाषते, कायवीर्यं तु यस्तु समाहितपाणिपादः कूर्मवदवतिष्ठत इति, तपोवीर्यं द्वादशप्रकार अष्टममध्ययनं वीर्यम्, तपो यद्बलादग्लायन् विधत्त इति, एवं सप्तदशविधे संयमे एकत्वाद्यध्यवसितस्य यद्बलात्प्रवृत्तिस्तत्संयमवीर्यम्, कथमहमतिचार नियुक्तिः 97 संयमे न प्राप्नुयामित्यध्यवसायिनः प्रवृत्तिरित्येवमाद्यध्यात्मवीर्यमित्यादि च भाववीर्यमिति, वीर्यप्रवादपूर्वे चानन्तं वीर्यं / वीर्यनिक्षेपादिः प्रतिपादितम्, किमिति?, यतोऽनन्तार्थं पूर्वं भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता चातोऽवगन्तव्या, तद्यथासव्वणईणं जा होज्ज वालुया गणणमागया सन्ती। तत्तो बहुयतरागो अत्थो एगस्स पुव्वस्स॥१॥ सवसमुद्दाण जलं जइपत्थमिया हविज्ज संकलियं। एत्तो बहुयतरागो अत्थो एगस्स पुव्वस्स॥२॥तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थत्वादनन्तता वीर्यस्येति // ९६॥सर्वमप्येतद्वीर्यं त्रिधेति प्रतिपादयितुमाह नि०-सव्वंपिय तं तिविहं पंडिय बालविरियं च मीसंच / अहवावि होति दुविहं अगारअणगारियं चेव॥९७ / / सर्वमप्येतद्भाववीर्यं पण्डितबालमिश्रभेदात् त्रिविधम्, तत्रानगाराणां पण्डितवीर्यं बालपण्डितवीर्यं त्वगाराणां गृहस्थानामिति, तत्र यतीनां पण्डितवीर्यंसादिसपर्यवसितम्, सर्वविरतिप्रतिपत्तिकाले सादिता सिद्धावस्थायांतदभावात्सान्तम्, बालपण्डितवीर्य तु देशविरतिसद्भावकाले सादि सर्वविरतिसद्भावे तद्धंशे वा सपर्यवसानम्, बालवीर्यं त्वविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितं भव्यानांत्वनादिसपर्यवसितम्, सादिसपर्यवसितं तु विरतिभ्रंशात्सादिता पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्द्ध // 299 // ®सर्वासां नदीनां यावन्त्यो भवेयुर्वालुका गणनमागताः सत्यः। ततो बहुतरोऽर्थं एकस्य पूर्वस्य / / 1 / / सर्वसमुद्राणां जलं यतिप्रमितं तत् भवेत्संकलितम् ततो० // ©ष्टत उपार्ध (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy