________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ / / 298 // पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपशमे तु सति सम्भाव्यते विषयग्रहणायेति // 94-8 श्रुतस्कन्ध:१ 96 // साम्प्रतमाध्यात्मिकं वीर्यं दर्शयितुमाह अष्टममध्ययन वीर्यम्, नि०- उज्जमधितिधीरत्तं सोंडीरत्तं खमा य गंभीरं / उवओगजोगतवसंजमादियं होइ अज्झप्पो // 96 // नियुक्ति: 96 आत्मन्यधीत्यध्यात्मतत्र भवमाध्यात्मिकं- आन्तरशक्तिजनितं सात्त्विकमित्यर्थः, तच्चानेकधा-तत्रोद्यमोज्ञानतपोऽनुष्ठा- वीर्यनिक्षेपादिः नादिषूत्साहः,एतदपि यथायोगं सम्भवे सम्भाव्ये च योजनीयमिति, धृतिः संयमे स्थैर्य चित्तसमाधानमिति (यावत्), धीरत्वं परीषहोपसर्गाक्षोभ्यता, शौण्डीर्यं त्यागसम्पन्नत्ता, षट्खण्डमपि भरतं त्यजतश्चक्रवर्तिनो न मनः कम्पते, यदिवाऽऽपद्यविषण्णता, यदिवा विषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्यं तु परैराक्रुश्यमानोऽपि मनागपि मनसा न क्षोभमुपयाति, भावयति चेदं- आक्रुष्टेन मतिमता तत्त्वार्थगवेषणे मतिः / कार्या / यदि सत्यं कः कोपः? स्यादनृतं किं नु कोपेन?॥१॥तथा अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं। लाभं मन्नइ धीरो जहुत्तराणं अभावं (लाभं) मि॥१॥ गाम्भीर्यवीर्यं नाम परीषहोपसगैरधृष्यत्वम्,यदिवा जनमनश्चमत्कारकारिण्यपि स्वानुष्ठाने अनौद्धत्यम्, उक्तं च-चुल्लच्छलेइ ज होइ ऊणयं रित्तयं कणकणेइ। भरियाई ण खुब्भंती सुपुरिसविनाणभंडाई॥१॥ उपयोगवीर्यं 0 साकारानाकारभेदात् द्विविधम्, तत्र साकारोपयोगोऽष्टधाऽनाकारश्चतुर्धा तेन चोपयुक्तः स्वविषयस्य द्रव्यक्षेत्रकालभावरूपस्य परिच्छेदं विधत्त इति, तथा योगवीर्यं त्रिविधं मनोवाक्कायभेदात्, तत्र मनोवीर्यमकुशलमनोनिरोधः कुशलमनसश्च प्रवर्तनम्, Oअज्झप्पं अज्झप्पे (प्र०)। 0 आक्रोशहननमारणधर्मभ्रंशानां बालसुलभानाम् / लाभं मन्यते धीरो यथोत्तराणामभावे // 1 // 0 यदिवा यत् मनश्चम० (मु०)। O छुल्लुच्छुलेइ प्र० / 0 उद्गिरति यद्भवत्यूनकं रिक्तकं कणकणति भृतानि न क्षुभ्यन्ते सुपुरुषविज्ञानभाण्डानि / / 1 / /