SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ वीर्यम्, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 297 // योग्यान् तद्भावेनेति, तथा मनोवाक्कायादीनां तद्भावपरिणतानां यद्वीर्य- सामर्थ्य तद्विविध- सम्भवे सम्भाव्ये च, सम्भवे / श्रुतस्कन्धः 1 तावत्तीर्थकृतामनुत्तरोपपातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति, तथाहि-तीर्थकृतामनुत्तरोपपातिकसुर- अष्टममध्ययन मनःपर्यायज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति , नियुक्तिः सम्भाव्ये तु यो हि यमर्थं पटुमतिना प्रोच्यमानं न शक्नोति साम्प्रतं परिणमयितुंसम्भाव्यते त्वेष परिकर्म्यमाणः शक्ष्यत्यमुम) 94-95 वीर्यनिक्षेपादिः परिणमयितुमिति, वाग्वीर्यमपि द्विविधं-सम्भवेसम्भाव्ये च, तत्र सम्भवे तीर्थकृतांयोजननिर्झरिणी वाक्सर्वस्वस्वभाषानुगता च तथाऽन्येषामपि क्षीरमध्वानुवादिलब्धिमतांवाचः सौभाग्यमिति, तथा हंसकोकिलादीनां सम्भवति स्वरमाधुर्यम्, सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रिया गानमाधुर्यम्, तथा चोक्तं- सामा गायति महुरं काली गायति खरं च रुक्खं चे त्यादि, तथासम्भावयामः-एनं श्रावकदारकं अकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः शुकसारिकादीनां वाचो मानुषभाषापरिणामः, कायवीर्यमप्यौरस्यं यद्यस्य बलम्, तदपि द्विविधं-सम्भवे सम्भाव्ये च, संभवे यथा चक्रवर्तिबलदेववासुदेवादीनां यद्बाहुबलादि कायबलम्, तद्यथा- कोटिशिला त्रिपृष्ठेन वामकरतलेनोद्धृता, यदिवा-'सोलस रायसहस्सा' इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति, सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुं तथा मेरुंदण्डवगृहीत्वा वसुधां छत्रकवद्ध मिति, तथा सम्भाव्यते अन्यतरसुराधिपोजम्बूद्वीपंवामहस्तेन छत्रकवद्धर्तुमयत्नेनैव च मन्दरमिति, तथा सम्भाव्यते अयं दारक : परिवर्धमानः शिलामेनामुद्धत्तु हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, इन्द्रियबलमपि श्रोत्रेन्द्रियादि स्वविषयग्रहणसमर्थं पञ्चधा एकैकम्, द्विविधं-सम्भवे सम्भाव्ये च, सम्भवे यथा श्रोतस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति,सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य // 297 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy