SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 295 // श्रुतस्कन्धः१ अष्टममध्ययन वीर्यम्, नियुक्तिः 91-93 वीर्यनिक्षेपादिः // अथ अष्टममध्ययनं श्रीवीर्याख्यम॥ उक्तं सप्तममध्ययनम्, साम्प्रतमष्टममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने कुशीलास्तत्प्रतिपक्षभूताश्च सुशीलाः प्रतिपादिताः, तेषां च कुशीलत्वं सुशीलत्वंचसंयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्त्रिविधमपि वीर्यं परिज्ञाय पण्डितवीर्ये यतितव्यमिति, नामनिष्पन्ने तु निक्षेपे वीर्याध्ययनम्, वीर्यनिक्षेपाय नियुक्तिकृदाह नि०- विरिए छक्कं दव्वे सच्चित्ताचित्तमीसगंचेव / दुपयचउप्पयअपयं एयं तिविहं तु सच्चित्तं // 11 // वीर्ये नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवीर्यं द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सूचित्ताचित्तमिश्रभेदात्रिधा वीर्यम्, सचित्तमपि द्विपदचतुष्पदापदभेदात् त्रिविधमेव, तत्र द्विपदानां अर्हच्चक्रवर्त्तिबलदेवादीनां यद्वीर्यं स्त्रीरत्नस्य वा यस्य वा यद्वीर्यं तदिह द्रव्यवीर्यत्वेन ग्राह्यम्, तथा चतुष्पदानामश्वहस्तिरत्नादीनां सिंहव्याघ्रशरभादीनां वा परस्य वा यद्वोढव्ये धावने वा वीर्य तदिति, तथाऽपदानांगोशीर्षचन्दनप्रभृतीनांशीतोष्णकालयोरुष्णशीतवीर्यपरिणाम इति ॥९१॥अचित्तवीर्यप्रतिपादनायाह नि०- अच्चित्तं पुण विरियं आहारावरणपहरणादीसु।जह ओसहीण भणियं विरियं रसवीरियविवागो॥१२॥ नि०- आवरणे कवयादी चक्कादीयं च पहरणे होंति / खित्तंमि जंमिखेत्ते काले जंजंमि कालंमि // 13 // 0 बलदेववासुदेवादीनां यद् वीर्य स्त्रीरत्नस्य वा यद् वीर्यं (प्र०)। // 295 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy