________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || 294 // कुर्वीत, तथा पापस्य कर्मणः पूर्वाचरितस्य विवेकं पृथग्भावं विनाशमाकाङ्केत् भिक्षुः साधुरिति, तथा- दुःखयतीति दुःखंपरीषहोपसर्गजनिता पीडा तेन स्पृष्टो व्याप्तः सन् धूतं संयमं मोक्षं वा आददीत गृह्णीयात्,यथा सुभटः कश्चित् सङ्ग्रामशिरसि शत्रुभिरभिद्रुतः परं शत्रु दमयति एवं परं- कर्मशत्रु परीषहोपसर्गाभिद्रुतोऽपि दमयेदिति // 29 // 409 // अपि चपरीषहोपसगैर्हन्यमानोऽपि-पीड्यमानोऽपि सम्यक् सहते, किमिव?- फलकवदपकृष्टः यथा फलकमुभाभ्यामपि पार्धाभ्यां तष्टं- घट्टितं सत्तनु भवति अरक्तद्विष्टं वा संभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा निष्टप्तदेहस्तनुः- दुर्बलशरीरोऽरक्तद्विष्टश्च, अन्तकस्य- मृत्योः समागमं प्राप्तिं आकाङ्क्षति अभिलषति, एवं चाष्टप्रकारं कर्म निर्धूय अपनीय न पुनः प्रपञ्चं जातिजरामरणरोगशोकादिकं प्रपञ्च्यते बहुधा नटवद्यस्मिन् स प्रपञ्चः- संसारस्तं नोपैति न याति, दृष्टान्तमाह- यथा अक्षस्य क्षये विनाशे सति शकटं गन्त्र्यादिकं समविषमपथरूपं प्रपञ्चमुपष्टम्भकारणाभावान्नोपयाति, एवमसावपि साधुरष्टप्रकारस्य कर्मणः क्षये संसारप्रपञ्चं नोपयातीति, गतोऽनुगमो, नयाः पूर्ववद्, इतिशब्दः परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् // 30 // ४१०॥समाप्तं च कुशीलपरिभाषाख्यं सप्तममध्ययनम् // श्रुतस्कन्धः१ सप्तममध्ययनं कुशीलपरिभाषा, सूत्रम् 27-30 (407-410) पृथ्व्यादिजीवानामारम्भः गृङ्ख्यादिश्व // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ सप्तममध्ययनं कुशीलपरिभाषाख्यं समाप्तमिति॥ // 294 //