________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 293 // लब्धेन मदं विदध्यात्, नापि तपसा पूजनसत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः, यदिवा पूजासत्कार - श्रुतस्कन्धः१ निमित्तत्वेन तथाविधार्थित्वेन वा महतापि केनचित्तपो मुक्तिहेतुकं न निःसारं कुर्यात्, तदुक्तं- परं लोकाधिकं धाम, तपःश्रुतमिति सप्तममध्ययनं कुशीलद्वयम् / तदेवार्थित्वनिलुप्तसारं तृणलवायते॥१॥यथा चरसेषु गृद्धिंन कुर्यात्, एवं शब्दादिष्वपीति दर्शयति- शब्दैः वेणुवीणा परिभाषा, दिभिराक्षिप्तः संस्तेषु असजन् आसक्तिमकुर्वन् कर्कशेषु च द्वेषमगच्छन् तथा रूपैरपि मनोज्ञेतरै रागद्वेषमकुर्वन् एवं सर्वैरपि कामैः इच्छामदनरूपैः सर्वेभ्यो वा कामेभ्यो गृद्धिं विनीय अपनीय संयममनुपालयेदिति, सर्वथा मनोज्ञेतरेषु विषयेषु रागद्वेषं न (407-410) पृथ्व्यादिकुर्यात्, तथा चोक्तं- सद्देसु य भद्दयपावएसु, सोयविसयमुवगएसु / तुट्टेण व रुद्रुण व, समणेण सया ण होयव्वं // 1 // रूवेसु या जीवानामारम्भः भद्दयपावएसु, चक्खुविसयमुवगएसु / तुढेण व रुद्रुण व समणेण सया ण होयव्वं // 2 // गंधेसु य भद्दयपावएसु, घाणविसयमुवगएसु। गृद्ध्यादिश्च तुढेण व रुढेण व समणेण सया ण होयव्वं // 3 // भक्खेसु य भद्दयपावएसु, रसणविसयमुवगएसु। तुट्टेण व रुद्वेण व, समणेण सया ण / होयव्वं // 4 // फासेसु य भद्दयपावएसु, फासविसयमुवगएसु / तुट्टेण व रुद्रुण व, समणेण सया ण होयव्वं // 5 // // 27 // 407 // यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्गनिरोधोऽपि कार्य इति दर्शयति- सर्वान् सङ्गान् सम्बन्धान् आन्तरान् स्नेहलक्षणान् / बाह्यांश्च द्रव्यपरिग्रहलक्षणान् अतीत्य त्यक्त्वा धीरोविवेकी सर्वाणि दुःखानिशारीरमानसानि त्यक्त्वा परीषहोपसर्गजनितानि तितिक्षमाणः अधिसहन् अखिलो ज्ञानदर्शनचारित्रैः सम्पूर्णस्तथा कामेष्वगृद्धस्तथा अनियतचारी अप्रतिबद्धविहारी तथा जीवानामभयंकरोभिक्षणशीलो भिक्षुः-साधुः एवं अनाविलोविषयकषायैरनाकुल आत्मायस्यासावनाविलात्मा संयममनुवर्त्तत इति // 28 // 408 // किञ्चान्यत्-संयमभारस्य यात्रार्थ- पञ्चमहाव्रतभारनिर्वाहणार्थं मुनिः कालत्रयवेत्ता भुञ्जीत आहारग्रहणं शब्देषु च भद्रकपापकेषु / श्रोत्रविषयमुपगतेषु तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यम् / रूपेषु० चक्षुः / गन्धेषु० घ्राण / भक्ष्येषु रसना० / स्पर्शेषु स्पर्शन० / // 223 //