SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 291 // गृझ्यादिश्व वधस्मत यद्यस्मै रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति- उदरेऽनुगृद्ध उदरानुगृद्धः - उदरभरणव्यग्रस्तुन्दपरिमृज श्रुतस्कन्धः 1 इत्यर्थः, इदमुक्तं भवति- यो ह्युदरगृद्ध आहारादिनिमित्तं दानश्राद्धाख्यानि कुलानि गत्वाऽऽख्यायिकाः कथयति स कुशील सप्तममध्ययनं कुशीलइति, अथासावाचार्यगुणानामार्यगुणानां वा शतांशे वर्तते शतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वर्त्तते इति यो ह्यन्नस्य हेतुं- | परिभाषा, भोजननिमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण लापयेत् भाणयेत्, असावप्यार्यगुणानां सहस्रांशे वर्तते किमङ्ग पुनर्यः / सूत्रम् 23-26 (403-406) स्वत एवाऽऽत्मप्रशंसां विदधातीति // 24 // 404 // किञ्च- यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्क्रान्तो निष्क्रम्य / पृथ्व्यादिच परभोजने पराहारविषये दीनो दैन्यमुपगतो जिह्वेन्द्रियवशातॊ बन्दिवत् मुखमाङ्गलिको भवति मुखेन मङ्गलानि- प्रशंसा- जीवानामारम्भः वाक्यानि ईदृशस्तादृशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तं च-"सो एसो जस्स गुणा वियरतनिवारिया दसदिसासु / इहरा। कहासु सुव्वसि पच्चक्खं अज्ज दिट्ठोऽसि // 1 // इत्येवमौदर्य प्रति गृद्धः अध्युपपन्नः, किमिव?- नीवारः सूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध- आसक्तमना गृहीत्वा च स्वयूथं महावराहो महाकायः सूकरः स चाहारमात्रगृद्धोऽतिसंकटे प्रविष्टः सन् अदूर न एव शीघ्रमेवघंत ति विनाशं एष्यति प्राप्स्यति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति / / 25 / / 405 / / किंचान्यत्, स कुशीलोऽन्नस्य पानस्य वा कृतेऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते अनुप्रियं भाषते यद्यस्य प्रियं तत्तस्य वदतोऽनुपश्चाद्भाषते अनुभाषते, प्रतिशब्दकवत् सेवकवद्वा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः, स चैवम्भूतः सदाचारभ्रष्टः // 291 // 0 श्रद्धाकाख्यानि (मु०)। 0 आला० (मु०)। 0 ०वशादातॊ (प्र०)। 0 स एष यस्य गुणाः विचरन्त्यनिवारिता दशदिशासु / इतरथा कथासु श्रूयते प्रत्यक्षं / अद्य दृष्टोऽसि // 1 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy