________________ श्रीसूत्रकृताङ्गं | नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 289 / / श्रुतस्कन्धः१ सप्तममध्ययनं कुशीलपरिभाषा, सूत्रम् 19-22 (399-402) पृथ्व्यादिजीवानामारम्भ: गृङ्ख्यादिश्च जन्तव इति, एवं परिसङ्ख्याय ज्ञात्वा भिक्षणशीलो भिक्षुः साधुरित्यर्थः, यस्मात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते तस्मात् विद्वान् पण्डितो विरतःपापानुष्ठानादात्मा गुप्तो यस्य सोऽयमात्मगुप्तो मनोवाक्कायगुप्त इत्यर्थः, दृष्ट्वा च त्रसान् चशब्दास्थावरांश्च दृष्टा परिज्ञाय तदुपघातकारिणी क्रियां प्रतिसंहरेत् निवर्तयेदिति // 20 // 400 // साम्प्रतं स्वयूथ्याः कुशीला अभिधीयन्त इत्याह-ये केचन शीतलविहारिणो धर्मेण- मुधिकया लब्धं धर्मलब्धं उद्देशकक्रीतकृतादिदोषरहितमित्यर्थः, तदेवम्भूतमप्याहारजातं निधाय व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जते तथा ये विकटेन प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एव प्रदेशे देशसर्वस्नानं कुर्वन्ति तथा यो वस्त्रं धावति प्रक्षालयति तथा लुषयति शोभार्थं दीर्घ सत् पाटयित्वा ह्रस्वं करोति हस्वं वासन्धाय दीर्घ करोति एवं लूषयति, तदेवं स्वार्थं परार्थं वा यो वस्त्रं लूषयति, अथासौ णागणियस्स त्ति निर्ग्रन्थभावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थंकरगणधरादय आहुरिति // 21 // 401 // उक्ताः कुशीलाः, तत्प्रतिपक्षभूताः शीलवन्तः प्रतिपाद्यन्त इत्येतदाह-धिया राजते इति धीरो- बुद्धिमान् उदगंसि त्ति उदकसमारम्भे सति कर्मबन्धो भवति, एवं परिज्ञाय किं कुर्यादित्याह- विकटेन प्रासुकोदकेन सौवीरादिना जीव्यात् प्राणसंधारणं कुर्यात्, चशब्दात् अन्येनाप्याहारेण प्रासुकेनैव प्राणवृत्तिं कुर्यात्, आदिः- संसारस्तस्मान्मोक्ष आदिमोक्षः (तं) संसारविमुक्तिं यावदिति, धर्मकारणानां वाऽऽदिभूतं शरीरं तद्विमुक्तिं यावत् यावज्जीवमित्यर्थः, किं चासौ साधुर्बीजकन्दादीन् अभुञ्जानः, आदिग्रहणात् मूलपत्रफलानि गृह्यन्ते,एतान्यप्यपरिणतानि परिहरन् विरतो भवति, कुत इति दर्शयति- स्नानाभ्यङ्गोद्वर्तनादिषु क्रियासु निष्प्रतिकर्मशरीरतयाऽन्यासु च चिकित्सादिक्रियासु न वर्तते, तथा स्त्रीषु च विरतः, बस्तिनिरोधग्रहणात् अन्येऽप्याश्रवा (r) उद्देशिक (प्र०)। (r) जातं विनिधाय (मु०)। 0 दीर्घमुत्पाट:० (मु०)। 0 मूलपत्रफलादीनि (प्र०)। // 2/ 2 //