SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् / श्रुतस्कन्धः१ / / 286 // श्रुतस्कन्धः 1 सप्तममध्ययन कुशीलपरिभाषा, सूत्रम् 15-18 (395-398) पृथ्व्यादिजीवानामारम्भ: गृङ्ख्यादिश्च पावाइं कम्माई पकुव्वतो हि, सिओदगंतू जइतं हरिजा / सिज्झिंसु एगे दगसत्तघाती, मुसंवयंते जलसिद्धिमाहु॥सूत्रम् 17 // ( // 397 // ) हुतेण जे सिद्धिमुदाहरंति, सायंच पायं अगणिं फुसंता / एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणंपि।।सूत्रम् 18 // ( // 398 // ) यदि जलसम्पर्कात्सिद्धिः स्यात् ततो ये सततमुदकावगाहिनो मत्स्याश्च कूर्माश्च सरीसृपाश्च तथा मद्गवः तथोष्ट्रा- जलचरविशेषाः तथोदकराक्षसा- जलमानुषाकृतयोजलचरविशेषा एव, तेंप्रथमं सिद्ध्येयुः, न चैतदृष्टमिष्टं वा, ततश्च ये उदकेन सिद्धिमुदाहरन्त्येतद् अस्थानं अयुक्तं- असाम्प्रतं कुशला निपुणा मोक्षमार्गाभिज्ञा वदन्ति // 15 // 395 // किञ्चान्यत्- यधुदकं कर्ममलमपहरेदेवं शुभमपि पुण्यमपहरेत्, अथ पुण्यं नापहरत्येवं कर्ममलमपि नापहरेत्, अत इच्छामात्रमेवैतद्यदुच्यते- जलं कर्मापहारीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः स्मार्तमार्गमनुसरन्तः कुर्वन्ति ते यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं स्मार्तमार्गानुसारिणो जलशौचपरायणा मन्दा अज्ञाः कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव तन्मयान्तदाश्रितांश्च पूतरकादीन् विनिघ्नन्ति व्यापादयन्ति, अवश्यंजलक्रियया प्राणव्यपरोपणस्य सम्भवादिति // 16 // 396 // अपिच- पापानि पापोपादानभूतानि कर्माणि प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो यत्कर्मोपचीयते तत्कर्म यादकमपहरेत् यद्येवं स्यात् तर्हि हिः यस्मादर्थे यस्मात्प्राण्युपमर्दैन कर्मोपादीयते जलावगाहनाचापगच्छति तस्मादुदकसत्त्वघातिनः पापभूयिष्ठा अप्येवं सिद्ध्येयुः, न चैतद्दष्टमिष्टं वा, तस्माद्ये जलावगाहनात्सिद्धिमाहुस्ते (r) विशेषा एते प्रथमं (मु०)। ॐ हरेदेवं कर्म (मु०)। // 286 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy